Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
भोपाल चरित्रम् ॥४४॥
| क्लेशवारिणे !। नमस्ते भक्तिमल्लोक-भवसन्तापहारिणे ! ॥७६॥” इत्यादिकां स्तुतिं श्रुत्वा, श्रीपालेन कृतां ।
श्लोकवर्द | समं। पुत्र्या जहर्ष भूपोऽपि, श्रीपालो वहिरागतः ॥७७॥ नृपं नत्वा स तत्पाश्चे, स्थितस्तदा नृपोऽवदत्। सः हे भाग्यवन् ! कुलं ते किं ?, किं नाम ? त्वरितं वद ॥७८॥ श्रुत्वेति स्वमुखेनाहं, वच्मि वचरितं कथं ? एवं यावत्कुमारः स, चिन्तयति स्वमानसे ॥७९॥ चारणमुनिराकाशा-तत्रैकस्तावदागतः। तं विलोक्याखिला 18 लोकाः, निजस्थानात्समुत्थिताः॥८०॥ मुनिर्जिनालयं गत्वा, जिनं नत्वा बहिः स्थितः। तं प्रणम्य यथास्थानं, तत्र राजादयः स्थिताः ॥॥ तदा च मनिना दत्ता, धार्मिकदेशना यथा। जिनधर्म च भो ! भव्या-स्त्रीणि तत्वानि सन्ति च ॥८२॥ देवतत्त्वं गुरुतत्त्वं, धर्मतत्त्वं च तत्र हि। देवतत्त्वस्य भेदी द्वो, चाहत्सिद्ध-पदद्वयम् | | ॥८३॥ गुरुतत्त्वे त्रयः सन्ति, सूरि-पाठक-साधवः । धर्मतत्त्वस्य चत्वारः, भेदाः सदर्शनं पदम् ॥८४॥ ज्ञान- | | पदं च चारित्र-पदं तपःपदं पुनः । एभिनवपदैः कृत्वा, सिद्धचक्रं भवेदिदम् ॥८५॥ अस्य श्रीसिद्धचक्रस्य, | ध्यानं राज्यकरं पुनः। अस्ति मोक्षकरं कुष्टा-द्यखिलरोगनाशकं ॥८६॥ अतोऽस्य सर्वदा ध्यानं, कार्य निजा
॥४४॥ | र्थसिद्धये । श्रीपाल इव तच्छ्रुत्वा, नृपो जगाद हे गुरो ! ॥८७॥ कोऽसौ श्रीपालभूमीशो ?, गुरुः प्राहाथ हे
NERACAGAKAS
HAN
Jain Educ
a
tional
For Personat & Private Use Only
Kinelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100