Book Title: Shripal Charitram Shloakbaddham Author(s): Labdhimuni, Publisher: Zaveri Mulchand Hirachand Bhagat View full book textPage 8
________________ श्रीपाल चरित्रम् %CCIRCRAC महावीरः समागतः ॥६॥ समवसरणं देवैः, कृतं श्रीगौतमः पुनः। राजगृहं गतः स्वाम्या--ज्ञया वाचंयमाग्रणिः | ॥७॥ वनपालोऽथ भूपाय, तद्व पनिकां ददौ । प्रीतिदानं ददो तस्मै, श्रेणिकोऽपि तदा मुदा ॥ ८॥ वन्दनार्थं गतो राजा, परिवारेण संयुतः। गौतमस्वामिनं नत्वो-चितस्थाने स्थितोऽग्रतः ॥९॥ पर्षदि गौत-14 | मेनाथ, प्रारब्धा धर्मदेशना । दानशीलतपोभावा, वर्णिता भवनाशकाः ॥ १० ॥ प्रधानः सर्वधर्मेषु, भाव । स्तत्रापि वर्णितः । सिद्धचक्रप्रभावश्च, सत्कृत्येषु विशेषतः ॥ ११ ॥ अर्हत्सिद्धगणोन्द्रोपा--ध्यायमुनिसुद शनैः। ज्ञानत्रततपोभिः स्यात्, सिद्धचक्रमिमैः पदैः ॥ १२॥श्रीपालनृपवत् सिद्ध-चक्रं नवपदात्मकं । ध्यातं । तद्रोगहरं राज्य--सुखशिवडूकरं भवेत् ॥ १३ ॥ तदा श्रीगौतमः पृष्टो, राज्ञा श्रीपालभूपतिः। कोऽसौ ? तेन कया रीत्या--ऽऽराधितं सिद्धचक्रकं ? ॥१४॥ तदा श्रीगौतमोऽवादीत्, मुनिसुव्रतशासने । चतुर्थारेऽभवच्चोजयिनी पुरी च मालवे ॥ १५ ॥ प्रजापालनृपस्तत्रा-ऽभूत्तन्मुख्यप्रियाद्वयं। सौभाग्यसुन्दरी चाथा, द्वितीया रूपसन्दरी ॥१६॥ मिथ्याधर्मे रताऽस्त्याद्या. जैनधर्म रताऽपरा। विवाद जायमाने स्व-धर्म स्थापयतः स्म | |ते ॥ १७ ॥ तथाऽपि प्रीतिरन्योऽन्यं, स्वधर्मे रक्तयोस्तयोः । आसीदेवं तयोर्बाढं, कालः सुखेन गच्छति t ional ciety dain Educa For Personal & Private Lise Only Aanelibrary.org APage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 100