Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 30
________________ प्रोपाल चरित्रम् सगे। ॥२४॥ कर्मणामेव, चित्ते धार्यमतः परं । जिनोक्तमेव धर्म त्वं, मन्यस्वाखिलसौख्यदम् ॥५२॥ श्रुत्वेति नवतत्त्वेषु, |जैनधर्मे नृपो रुचिं । धृतवान् निर्मलं प्राप, सम्यक्त्वं भवनाशकम् ॥५३॥ हे ! श्रीपालाऽथ धन्योऽहं, जा-IA श्लोकबंद | माता येन सद्गुणी। सिंहरथसुतो लब्धः, कृत्वेत्यादिस्तुतिं नृपः ॥५४॥ अत्याग्रहेण चारोप्य, गजे मद-12 नसुन्दरीं । श्रीपालमनयद्राज-सभायां च महोत्सवात् ॥५५॥ युग्मम् ॥ तत्र धवलमाङ्गल्या-दिकृत्यं कृतवा-3 न्नृपः । श्रीपालस्य निवासाय, महामन्दिरमर्पयत् ॥५६॥ परिवारयुतस्तत्रा--वसत्कुमारकस्तदा। श्रीजिनशा-13 सनश्लाघा, महत्यजनि भूतले ॥५७॥ अथान्यस्मिन् दिने हस्ति--रथाश्वसुभटादिभिः। परिवृतो वनक्रीडां, दृष्टुं श्रीपालको गतः ॥ ५८ ॥ देवकुमारवद् दृष्टः, श्रीपालो पुर्जनस्तदा । एको ग्राम्यनरः कश्चि-ल्लोकानां | पुरतोऽवदत् ॥५९॥ कोऽयं राजा प्रयातीति, प्रोक्तं पैौरैरयं नृपः । न किन्तु नृपजामता, मदनसुन्दरीपतिः ॥ ६० ॥ पौरोक्तैतद्वचः श्रुत्वा, विलक्षीभूय सद्मनि । तूर्णमागत्य श्रीपाल, उदासीनतया स्थितः ॥ ६१॥ माताऽथ तादृशं पुत्रं, दृष्ट्वाऽवग् हे ! सुताद्य किं । कश्चिद् व्याधिस्तनौ तेऽस्ति, तवाज्ञा केन खण्डिता ? ॥६२॥ तव वा भार्यया प्रोक्तं ?, किमप्यद्य त्वमीदृशः। हेतुना केन चिन्तायुग्, विमनस्कः प्रदृश्यसे ? ॥३॥ Jain Educ a tional For Personal & Private Use Only linelibrary.org का

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100