Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 36
________________ श्रीपाल परिश्रम् ॥३०॥ मेऽस्ति प्रयोजनम् ? ॥ १९ ॥ तैरुक्तं श्रेष्टिनस्तस्य, क्षुद्रदेव्याश्च स्तम्भिताः । पोतास्तस्यै तव श्रेष्टी, वलिदानं |प्रदास्यति ॥२०॥ श्रीपाल स्तन्निशम्योचे, रे! मूर्खा ! धवलः खलु । योग्योऽस्ति बालिदानाय, युष्मत्स्वामी नराधमः ॥२१॥ वीरस्य बलिदानं मे, प्रदातुं कः क्षमोऽस्ति ? च। एवं तेषां मिथस्तत्र, प्रभूतं कलहोऽभवत् ॥ २२॥ पश्चाद्भटैः समन्तात्तैः, कुमारः परिवेष्टितः । तद्दृष्ट्वा स चकारोच्चैः सिंहनादं भयावहम् ||२३|| तच्छ्रुत्वा तद्भटाः सर्वे, कम्पमानाः पलायिताः । तदा श्रेष्ठी पुनर्भूप- पार्श्वाल्लात्वा महद्बलम् ||२४|| कुमारबन्धनार्थं च, मुमोच तद्बलं तदा कुमारसिंहनादात्त-दिशोदिशं पलायितम्॥२५॥ युग्मम् ॥ एकीभूय ततः शस्त्रे - र्नृपश्रेष्ठि- बलद्वयं । कुमारेण समं युद्धं प्रचकार भयावहम् ||२६|| श्रीपालं छादयामासुर्भटाः शस्त्रैस्तथाऽपि तं । शस्त्रं लगति नो सिद्ध-चकौषधिप्रभावतः ||२७|| कुमारेण ततः केशाः कस्यचित्कस्य नाशिका, श्मश्रूणि कस्यचित्कस्य चिच्छिखादि च छेदितम् ॥ २८ ॥ एवं पराभवं प्राप्ताः केचिद्भटा दिशो दिशं । पलायिता मुखादिभ्यो, वमन्ता रुधिरादिकम् ॥ २९ ॥ कुमारकृत हुङ्कार - शब्देनैव पलायिताः । कम्पमानाश्च तद्दृष्ट्वा ऽभूदाश्चर्यं नृमानसे ॥३०॥ तदाऽथ श्रेष्ठिनाऽचिन्त्य ऽयं किं विद्याधरोस्ति ? वा । किन्नरो दानवो देव - स्तत्सम्यग् नावगम्यते ॥३१॥ For Personal & Private Use Only Jain Educational श्लोकबुद्ध ४ सर्गः ॥३०॥ elibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100