________________
श्रीपाल
परिश्रम् ॥३०॥
मेऽस्ति प्रयोजनम् ? ॥ १९ ॥ तैरुक्तं श्रेष्टिनस्तस्य, क्षुद्रदेव्याश्च स्तम्भिताः । पोतास्तस्यै तव श्रेष्टी, वलिदानं |प्रदास्यति ॥२०॥ श्रीपाल स्तन्निशम्योचे, रे! मूर्खा ! धवलः खलु । योग्योऽस्ति बालिदानाय, युष्मत्स्वामी नराधमः ॥२१॥ वीरस्य बलिदानं मे, प्रदातुं कः क्षमोऽस्ति ? च। एवं तेषां मिथस्तत्र, प्रभूतं कलहोऽभवत् ॥ २२॥ पश्चाद्भटैः समन्तात्तैः, कुमारः परिवेष्टितः । तद्दृष्ट्वा स चकारोच्चैः सिंहनादं भयावहम् ||२३|| तच्छ्रुत्वा तद्भटाः सर्वे, कम्पमानाः पलायिताः । तदा श्रेष्ठी पुनर्भूप- पार्श्वाल्लात्वा महद्बलम् ||२४|| कुमारबन्धनार्थं च, मुमोच तद्बलं तदा कुमारसिंहनादात्त-दिशोदिशं पलायितम्॥२५॥ युग्मम् ॥ एकीभूय ततः शस्त्रे - र्नृपश्रेष्ठि- बलद्वयं । कुमारेण समं युद्धं प्रचकार भयावहम् ||२६|| श्रीपालं छादयामासुर्भटाः शस्त्रैस्तथाऽपि तं । शस्त्रं लगति नो सिद्ध-चकौषधिप्रभावतः ||२७|| कुमारेण ततः केशाः कस्यचित्कस्य नाशिका, श्मश्रूणि कस्यचित्कस्य चिच्छिखादि च छेदितम् ॥ २८ ॥ एवं पराभवं प्राप्ताः केचिद्भटा दिशो दिशं । पलायिता मुखादिभ्यो, वमन्ता रुधिरादिकम् ॥ २९ ॥ कुमारकृत हुङ्कार - शब्देनैव पलायिताः । कम्पमानाश्च तद्दृष्ट्वा ऽभूदाश्चर्यं नृमानसे ॥३०॥ तदाऽथ श्रेष्ठिनाऽचिन्त्य ऽयं किं विद्याधरोस्ति ? वा । किन्नरो दानवो देव - स्तत्सम्यग् नावगम्यते ॥३१॥
For Personal & Private Use Only
Jain Educational
श्लोकबुद्ध ४ सर्गः
॥३०॥
elibrary.org