Book Title: Shripal Charitram Shloakbaddham Author(s): Labdhimuni, Publisher: Zaveri Mulchand Hirachand Bhagat View full book textPage 9
________________ श्रीपाल ॥ ३ ॥ Jain Educat ॥ १८ ॥ अथैकदा समं गर्भो - त्पत्तिरासीत्तयोर्द्वयोः । सम्पूर्णसमयेऽभूतां, सुते तयोर्द्वयोः क्रमात् ॥ १९ ॥ तदा जन्मोत्सव राज्ञा, कृतस्तयोः पुनस्तयोः । सुनामस्थापनाकाले तोषिता ज्ञातिगोत्रिणः ॥ २० ॥ सौभाग्यसुन्दरीरूप-सुन्दरीसुतयोः क्रमात् । इति नाम कृतं सुर-सुन्दरी मदनसुन्दरी ॥ २१ ॥ प्रवर्द्धन्त्यो मिथः क्रीडां, प्रकुर्वन्त्यो सुखेन च । द्वेऽपि पठनस्यार्हे-ऽभूतां राजसुते क्रमात् ॥ २२॥ उक्तं च--"लालयेत्पञ्चवर्षाणि, दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रमिवाचरेत् ॥२३॥” ततः समर्पिता शिव --भूतये सुरसुन्दरी । मदनसुन्दरी राज्ञा, पठनार्थ सुबुद्धये ॥ २४ ॥ मिथ्यत्विगुरुसंसर्गात्, निपुणा सुरसुन्दरी । जाता मिथ्यात्वधर्मे स्त्री- चतुःषष्टिकलासु च ॥२५॥ जैनीयगुरुसंसर्गात्, जाता मदनसुन्दरी । जैनधर्मेरता स्त्रीणां, चतुःषष्टिकलासु च ॥ २६ ॥ जीवाजीवादितत्त्वज्ञा, स्वान्यसमयवेदिनी । कार्मप्रकृतिशास्त्रेषु, निपुणाऽसूद्विशेषतः ॥ २७ ॥ पुनः कर्मैव कर्त्तारं जानाति जिनवाक्यतः । जिनभक्तो रता दक्षा, चावश्यकादिकर्मसु ॥ २८ ॥ शिवभूतिसुबुद्धिभ्यां धार्मिकां व्यवहारिकां । कलां पपाठ्य राज्ञोऽयै, द्वे नीयेते स्म ते सुते ॥२९॥ पुत्रीद्वयपरीक्षार्थं, राजसंसदि भूपतिः । प्रहर्षितः समस्यायाः, पदमेकमचीकथत् ॥ ३० ॥ “ पुन्येन चैत - For Personal & Private Use Only national चरित्रम् ॥ ३॥ anelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 100