Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 197
________________ सोपानम् द्रव्यस्वरूपनिरूपणम् । स्योत्पत्त्यभ्युपगमे न किञ्चित्कारणाभिमतेन भावेन तस्य कृतमिति न तत्कार्यतया तद्वयपदेशमासादयेदिति वक्तव्यम् , क्षणिकपक्षेऽप्यस्य समानत्वात् । तस्मात् कथञ्चिद्व्यवस्थितस्यैव भावस्य जन्मविनाशयोदर्शनाद्यथादर्शनं हेतुफलभावव्यवस्थितेः परिणामसिद्धिः समायाता, न चाभेदबुद्धिधीन्ता, भेदबुद्धावपि तत्प्रसक्तेः स्वप्नावस्थाहस्त्यादिभेदबुद्धिवत् । न हि मिथ्याबुद्धीनामपि विसंवादो भावमात्रे, भेदेष्वेव तद्दर्शितेषु विप्रतिपत्त्युपलब्धेः, तस्मादक्षणिकत्वे 5 क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वमभ्युपगच्छता क्षणिकानामर्थक्रिया दर्शनीया, अन्यथा सत्त्वादेहेतोविपक्षव्यावृत्तिप्रसाधिकाया अनुपलब्धेर्व्यतिरेकासिद्धरक्षणिकत्वेऽर्थक्रियाविरोधः क्षणिकत्वेऽर्थक्रियोपलम्भमन्तरेण कथं सिद्धिमासादयेत् , न चाक्षणिकेऽर्थक्रियाविरोधादेव क्षणिकेऽर्थक्रियोपलब्धिः, इतरेतराश्रयात् । क्षणिकत्वेऽपि भावानां यथातत्त्वमुपलम्भनियमाभावात् ग्राह्यग्राहकाकारसंवेदनवदयथातत्त्वोपलम्भसम्भवान्न क्षणिकत्वमध्यक्ष- 10 गोचर इत्यतोऽप्यनेकान्तः सिद्धिमासादयति । न च सदृशापरापरोत्पत्तिरनिश्चयहेतुः, भेदैकान्ते तस्या अप्ययोगात् , न हि तत्र सादृश्यं भावानां व्यतिरिक्तमव्यतिरिक्तं वा सम्भवति । न चाविद्यमानमनुपलभ्यमानं वा तद्विभ्रमहेतुरतिप्रसङ्गात् । न च विशेषाणां स्थितिभ्रान्ति. जननशक्तिरेव सादृश्यम् , क्षणिकाऽऽवेदकप्रमाणान्तराभावतः स्थितिप्रत्तिपत्ते |न्त्यसिद्धेः । न चान्याग्भूतं वस्त्वबाधितस्थिरप्रतिपत्तिजन्मनो हेतुरभ्युपगन्तव्यम् , अभ्रान्तप्रतिपत्तेर्व- 15 स्त्वव्यवस्थापकत्वेन प्रतिनियतव्यवहारोच्छेदप्रसक्तः, अत एवोपलब्धमपि क्षणिकत्वं विषमज्ञ इव न निश्चिनोतीत्युदाहरणमप्यसिद्धम् , यथावस्तूपलम्भनियमाभावात् । ये यद्भाव प्रत्यनपेक्षास्ते तद्भावनियताः यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने, विनाशं प्रत्यनपेक्षश्च भाव इत्यभिधानमपि परिणामप्रसाधकम् , भावस्योत्तरपरिणामं प्रत्यनपेक्षतया तद्भावनियतत्वो. पपत्तेः पूर्वक्षणस्य स्वयमेवोत्तरीभवतोऽपरापेक्षाभावतः क्षेपायोगात् , उत्पन्नस्य चोत्पत्ति- 20 स्थितिविनाशेषु कारणान्तरानपेक्षस्य पुनः पुनरुत्पत्तिस्थितिविनाशत्रयमवश्यम्भावि, तदेवं कस्यचिदंशस्य पदार्थाध्यक्षतायामप्यनिर्णये सांशतामभ्युपगच्छन् कथमंशेनोत्पन्नस्यांशान्तरेण पुनः पुनरुत्पत्तिं नाभ्युपगच्छेत् , येनैकं वस्त्वनन्तपर्यायं नाङ्गीकुर्वीत । न चैकान्त. १ननु विनाशस्वभावनियता भावा इत्यस्य कोऽर्थ:, कि विनाशे कर्तव्ये स्वभावेन स्त्रसत्तया नियता इति, किंवा विनाशस्वभावे विनाशरूपतायां नियता इति, आये विनाशस्य सहेतुकत्वप्रसक्तिः, पदार्थसत्ताया एवं तद्धेतुत्वात् , इष्टापत्ती वस्तुसत्ताक्षणसमनन्तरं भावात् क्षणिकता न स्यात्, न च नाशो नीरूपः, वस्तुनिर्वर्तनीयतयाऽकिञ्चिद्पताविरोधात्, नाशस्य च सदाऽवस्थाने कृतकत्वादिकं तत्रैव व्यभिचारि, क्षणिकत्वे नाशविनाशाद्धाचोन्मजनप्रसङ्गः, द्वितीये च प्रतिषेध्यप्रतिषेधकयोरेकत्वमनुपपन्नम्, उपपत्तौ वा विश्वस्य वैश्वरूप्यानुपपत्तिरित्यपि बोध्यम् ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420