________________
सोपानम्
द्रव्यस्वरूपनिरूपणम् । स्योत्पत्त्यभ्युपगमे न किञ्चित्कारणाभिमतेन भावेन तस्य कृतमिति न तत्कार्यतया तद्वयपदेशमासादयेदिति वक्तव्यम् , क्षणिकपक्षेऽप्यस्य समानत्वात् । तस्मात् कथञ्चिद्व्यवस्थितस्यैव भावस्य जन्मविनाशयोदर्शनाद्यथादर्शनं हेतुफलभावव्यवस्थितेः परिणामसिद्धिः समायाता, न चाभेदबुद्धिधीन्ता, भेदबुद्धावपि तत्प्रसक्तेः स्वप्नावस्थाहस्त्यादिभेदबुद्धिवत् । न हि मिथ्याबुद्धीनामपि विसंवादो भावमात्रे, भेदेष्वेव तद्दर्शितेषु विप्रतिपत्त्युपलब्धेः, तस्मादक्षणिकत्वे 5 क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वमभ्युपगच्छता क्षणिकानामर्थक्रिया दर्शनीया, अन्यथा सत्त्वादेहेतोविपक्षव्यावृत्तिप्रसाधिकाया अनुपलब्धेर्व्यतिरेकासिद्धरक्षणिकत्वेऽर्थक्रियाविरोधः क्षणिकत्वेऽर्थक्रियोपलम्भमन्तरेण कथं सिद्धिमासादयेत् , न चाक्षणिकेऽर्थक्रियाविरोधादेव क्षणिकेऽर्थक्रियोपलब्धिः, इतरेतराश्रयात् । क्षणिकत्वेऽपि भावानां यथातत्त्वमुपलम्भनियमाभावात् ग्राह्यग्राहकाकारसंवेदनवदयथातत्त्वोपलम्भसम्भवान्न क्षणिकत्वमध्यक्ष- 10 गोचर इत्यतोऽप्यनेकान्तः सिद्धिमासादयति । न च सदृशापरापरोत्पत्तिरनिश्चयहेतुः, भेदैकान्ते तस्या अप्ययोगात् , न हि तत्र सादृश्यं भावानां व्यतिरिक्तमव्यतिरिक्तं वा सम्भवति । न चाविद्यमानमनुपलभ्यमानं वा तद्विभ्रमहेतुरतिप्रसङ्गात् । न च विशेषाणां स्थितिभ्रान्ति. जननशक्तिरेव सादृश्यम् , क्षणिकाऽऽवेदकप्रमाणान्तराभावतः स्थितिप्रत्तिपत्ते |न्त्यसिद्धेः । न चान्याग्भूतं वस्त्वबाधितस्थिरप्रतिपत्तिजन्मनो हेतुरभ्युपगन्तव्यम् , अभ्रान्तप्रतिपत्तेर्व- 15 स्त्वव्यवस्थापकत्वेन प्रतिनियतव्यवहारोच्छेदप्रसक्तः, अत एवोपलब्धमपि क्षणिकत्वं विषमज्ञ इव न निश्चिनोतीत्युदाहरणमप्यसिद्धम् , यथावस्तूपलम्भनियमाभावात् । ये यद्भाव प्रत्यनपेक्षास्ते तद्भावनियताः यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने, विनाशं प्रत्यनपेक्षश्च भाव इत्यभिधानमपि परिणामप्रसाधकम् , भावस्योत्तरपरिणामं प्रत्यनपेक्षतया तद्भावनियतत्वो. पपत्तेः पूर्वक्षणस्य स्वयमेवोत्तरीभवतोऽपरापेक्षाभावतः क्षेपायोगात् , उत्पन्नस्य चोत्पत्ति- 20 स्थितिविनाशेषु कारणान्तरानपेक्षस्य पुनः पुनरुत्पत्तिस्थितिविनाशत्रयमवश्यम्भावि, तदेवं कस्यचिदंशस्य पदार्थाध्यक्षतायामप्यनिर्णये सांशतामभ्युपगच्छन् कथमंशेनोत्पन्नस्यांशान्तरेण पुनः पुनरुत्पत्तिं नाभ्युपगच्छेत् , येनैकं वस्त्वनन्तपर्यायं नाङ्गीकुर्वीत । न चैकान्त.
१ननु विनाशस्वभावनियता भावा इत्यस्य कोऽर्थ:, कि विनाशे कर्तव्ये स्वभावेन स्त्रसत्तया नियता इति, किंवा विनाशस्वभावे विनाशरूपतायां नियता इति, आये विनाशस्य सहेतुकत्वप्रसक्तिः, पदार्थसत्ताया एवं तद्धेतुत्वात् , इष्टापत्ती वस्तुसत्ताक्षणसमनन्तरं भावात् क्षणिकता न स्यात्, न च नाशो नीरूपः, वस्तुनिर्वर्तनीयतयाऽकिञ्चिद्पताविरोधात्, नाशस्य च सदाऽवस्थाने कृतकत्वादिकं तत्रैव व्यभिचारि, क्षणिकत्वे नाशविनाशाद्धाचोन्मजनप्रसङ्गः, द्वितीये च प्रतिषेध्यप्रतिषेधकयोरेकत्वमनुपपन्नम्, उपपत्तौ वा विश्वस्य वैश्वरूप्यानुपपत्तिरित्यपि बोध्यम् ॥
"Aho Shrutgyanam"