________________
सम्मतितत्त्वसोपाने
[विंशम् चरमभ्युपगन्तव्यम् । उत्पादव्ययध्रौव्ययुक्तं सदित्येव सल्लक्षणमन्यस्य लक्षणस्यासम्भवात् , न हि सत्तायोगः सत्त्वम् , सत्ताया एवासम्भवात् सामान्यादावव्याप्तेश्च । नाप्यर्थ क्रियालक्षणं सत्त्वम् , एकान्ततो भावस्य नश्वरत्वे तदसम्भवात् , तस्य कचिदप्यभावात् । उत्पादस्थितिस्व.
भावरहितस्य नश्वरत्वे खपुष्पादेरेव तत्स्यान्न घटसुखादेः, क्षणस्थितिरेत्र जन्म विनाशश्व 5 यद्यभ्युपगम्येत कथमनेकान्तसिद्धिर्न भवेत् , न वा क्षणात्पूर्व भावानामस्थितौ किश्चित् प्रमाणमस्ति । न चावस्थितावपि न प्रमाणमिति वक्तव्यं प्रत्यक्षस्य तत्र प्रमाणत्वात् , प्रतिक्षणं निरन्वयविनाशसाधकप्रमाणाभावात् । न चाक्षणिके क्रमयोगपद्याभ्यामर्थ क्रियाविरोधात् ततो निवर्तमान सत्त्वं निरन्वयविनाशस्वभावमिति सत् क्षणिकमेवेति वाच्यम् , क्षणिकेऽपि तथैव
विरोधात् . कार्यकारणयोर्योगपद्येन कार्यकारणभावव्यवस्थाऽसम्भवात् , क्रमोत्पादे हेतोरसतः 10 कुतः फलजनकत्वम् , निरन्वयविनाशे चानन्तरं विनष्टस्य चिरविनष्टस्य च विनष्टत्वाविशेषा
चिरतरविनष्टादपि कार्योत्पत्तिप्रसङ्गः। भावस्य हि विद्यमानत्वादनन्तरकार्योत्पादनसामर्थ्यम् , न तु व्यवहिततदुत्पादनसामर्थ्य मिति विशेषो युक्तः न पुनरभावस्य, निःस्वभावत्वाविशेषात् । अनेकान्तवा दिना हि कथञ्चिद्भेदाभेदौ हेतुफलयोर्व्यवस्थापयितुं शक्यौ, संवेदनस्य ग्राह्यग्राहकाकारयोरिव भेदाभेदैकान्तौ तु परस्परतो न विशेषमासादयत इति न निरन्वय. 15 विनाशव्यवस्था नित्यताव्यवस्था वा कत्तुं शक्या, यतो न क्षणिकपक्षेऽपि सत्ताव्यतिरेकेण
अपराऽर्थक्रिया सम्भवति एवमक्षणिकेऽपि सा समाना, यथा हि क्षणिकस्य स्वसत्ताकाले कुर्वतोऽपि कार्य स्वत एत्र न भवति, भावे वा कार्यकारणयोर्योगपद्येन न कार्यकारणव्यवस्था भवेत् , किन्तु कार्यस्य स्वकालनियमात् तत्तदभावाविशेषेऽपि द्वितीयक्षण एव भाव
स्तथाऽक्षणिकस्यापि प्रागपि विवक्षितकार्योत्पादनसामध्ये ततो भवत्कार्य स्वकालनियतमेव 20 भविष्यतीति समानं पश्यामः । न चासति कारण विनाशे कार्योत्पत्तिर्न भवतीत्यत्र निबंधनं
किश्चिदस्ति येनाक्षणि कात् कार्योत्पत्तिनं भवेत् , यदि चाक्षणिकस्य कार्योत्पत्तिक्षणे स्थितिः कार्थोत्पत्तिप्रतिबन्धहेतुः, एवं सति क्षणिकस्यापि तदाऽभावः किं न प्रतिबन्धहेतुर्भवेत् । यदि च कारणविनाशे कार्योत्पत्तिः सोऽनन्तरमिव चिरविनष्ट कारणेऽस्तीति तदापि कार्यों.
त्पत्तिः स्यात् । अथ कार्योत्पत्तिकाले नैव कारण सन्निधेरुपयोगः तर्हि कारणव्यावृत्तेरपि 25 तदुत्पत्तिकाले नैव कश्चिदुपयोगः यतः कारणव्यावृत्तौ कार्य भवेत् , कारणव्यावृत्तिश्च तद
भावः स च प्राक् पश्चादपि कालान्तरेऽस्त्येवेति सर्वदा कार्योत्पत्तिप्रसक्तिः । न च प्राग्भावित्वमानं कार्योत्पत्ताबुपयोगः, तस्याकरणाभिमतेष्वपि जगत्क्षणेषु भावात् , तद्विशेषकल्पनायास्त्वक्षणिकेवप्यविरोधात् , तथाहि यद्यदा यत्र कार्यमुत्पित्सु तत्तदा तत्रोत्पादनसमर्थमक्षणिकं वस्त्विति कल्पनायां न काचित् क्षतिः । न च स्वयमेव प्रतिनियतसमयस्य कार्य
"Aho Shrutgyanam"