SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] द्रष्यस्वरूपनिरूपणम् । कथं न पूर्वापरक्षणप्रवृत्तमेकं हेतुफलरूपं वस्तु । शब्दविद्युत्प्रदीपादीनामपि उत्तरपरिणामाप्रत्यक्षत्वेऽपि तस्य सद्भावोऽभ्युपगन्तव्यः, पारिमाण्डल्यादिवत् , संविद्राह्य ग्राहकाकारविवे. कवता । अध्यक्षस्यापि केनचिद्रूपेण परोक्षता, अविरोधात् । न च पारिमाण्डल्यादेः प्रत्य. क्षतेति वाच्यम् , शब्दाद्युत्तरपरिणामेऽप्यस्य वक्तुं शक्यत्वात् , विशेषाभावात् । अत एवान्ते क्षयदर्शनात् प्रागपि तत्प्रसक्तिरिति न वक्तव्यम् , मध्ये स्थितिदर्शनस्य पूर्वापरकोटि- 5 स्थितिसाधकत्वेन प्रसिद्धेः, न हि शब्दादेरनुपादाना उत्पत्तिर्युक्तिमती, नापि निरन्वया सन्ततिविच्छित्तिः, चरमक्षणस्याकिश्चित्करत्वेऽवस्तुत्वापत्तितः पूर्वपूर्वक्षणानामपि तदापत्तितः सकलसन्तत्यभावप्रसक्तेः । न च शब्दादेर्निरुपादानोत्पत्यभ्युपगमेऽन्येषामपि सा सोपादानाऽभ्युपगन्तुं युक्ता, तथा च सुप्तप्रबुद्धबुद्धरपि निरुपादानोत्पत्तिप्रसक्तिः, तत्रापि शब्दादेरिव प्रागुपादानादर्शनात् । न चानुमीयमानमत्रोपादानम , शब्दादावपि तथाप्रसङ्गात् । 10 न च दृष्टार्थस्याखिलो गुणो दृष्ट एव इति परिणामसाधनं निरवकाशम् , दृष्टेऽप्यर्थे पारिमा. ण्डल्यादेः ग्राह्याकारविवेकादेर्वा अंशस्यादृष्टत्वेनानुमीयमानत्वात् , एवञ्च परिणामसाधनं निरवद्यमेव । यदि हि दृष्टस्यादृष्टोंऽशः सम्भवति कथमुत्पन्नस्वभावस्यानुत्पन्नः कश्चन आत्मा न सम्भवी, स्वभावभेदस्य भावभेदसाधनं प्रत्यनेकान्तिकत्वात् । तस्माद्वस्तु यन्त्रष्टं तदेव नश्यति नक्ष्यति च, यदुत्पन्नं तदेवोत्पद्यते उत्पत्स्यते च कथश्चित् , यदेव स्थितं तदेव तिष्ठति 15 स्थास्यति च कथञ्चिदित्यादि सर्व उपपन्नमिति भावस्योत्पादः स्थितिविनाशरूपः, विना. शोऽपि स्थित्युत्पत्तिरूपः, स्थितिरपि विगमोत्पादात्मिका कथञ्चिदभ्युपगन्तव्या, सर्वात्मना चोत्पादादेः परस्परं तद्वतश्च यद्यभेदैकान्तो भवेत्रोत्पादादित्रयं स्यादिति न कस्यचित् कुतश्चित्तद्वत्ता नाम । न च वस्तुशून्यविकल्पोपरचितत्रयसद्भावात्तद्वत्ता युक्ता, अतिप्रस. ङ्गात् , खपुष्पादेरपि तद्वत्ताप्रसक्तेः । न चोत्पादादेः परस्परतः तद्वतश्च भेदैकान्तः, सम्ब- 20 धासिद्धितो निःस्वभावताप्रसक्तेः। एतेन उत्पादव्ययध्रौव्ययोगाद्यदि असतां सत्त्वं शशभंगा. देरपि स्यात् , सतश्चेत् स्वरूपसत्त्वमायातम् , तथोत्पादव्ययध्रौव्याणामपि यद्यन्यतः सत्त्वं तदाऽनवस्थाप्रसक्तिः, स्वतश्चेद्धावस्यापि स्वत एव भविष्यतीति व्यर्थमुत्पादिकल्पनम् , एवं तद्योगेऽपि वाच्यमित्यादि निरस्तम् , एकान्तभेदाभेदपक्षोदितदोषस्य कथश्चिद्भेदाभेदात्मके वस्तुन्यसम्भवात् , न हि भिन्न उत्पादव्ययध्रौव्ययोगाद्भावस्य सत्त्वमस्माभिरभ्युपगम्यते 25 किन्तु उत्पादव्ययध्रौव्ययोगात्मकमेव सदित्यभ्युपगमः, विरोधादिकश्चात्र दूषणं निरवकाशम् , अन्तर्बहिश्च सर्ववस्तुनरूयात्मकस्याबाधिताध्यक्षप्रतिपत्तिविषयत्वात् , स्वरूपे विरो. . धासिद्धेः अन्यथातिप्रसक्तेः, एकान्तनित्यस्य प्रमाणबाधितत्वादनुभूयरूपस्य चासम्भवात् शून्यताया निषेत्स्यमानत्वात् पारिशेष्यात् कथश्चिन्नित्यानित्यं वस्तु अबाधितप्रमाणगो "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy