________________
:१४२ सम्मतितत्वसोपाने
[विंशम् र्याभावेऽपि कचित्कदाचिद्वत्तेरन्यदाऽन्यत्र च निवृत्तिः, नैतदेवम्, अन्यदाऽन्यत्र चावृत्तेरे. वानिश्चयात् , तथाहि कार्यकारणयोः परस्परतो व्यावृत्तिः किमपरित्यक्ततादात्म्यस्वरूपयोः, कथञ्चिदनुस्यूतमेकाकारं बिभ्रतोविज्ञानसम्बन्धिग्राह्यग्राहकाकारयोरिव, किं वा घटपटयोरि
वात्यन्तभिन्न स्वरूपयोरित्यत्र न निश्चयः। किश्च प्रत्यक्षेणैव हेतुफलयोः कथश्चित्तादात्म्यस्य 5 निश्चयान्न घटपटयोरिवाऽत्यन्तव्यावृत्तिस्तयोः परस्परतोऽभ्युपगन्तव्या, न ह्यध्यक्षतः प्रसिद्धस्वरूपं वस्तु तद्भावे प्रमाणान्तरमपेक्षते, अग्निरिवोष्णत्वनिश्चये । न च कालभेदान्यथानुपपत्या प्रतिक्षणं भेदेऽपि पूर्वोत्तरक्षणयोः कथश्चित्तादात्म्यं वस्तुनो विरुद्ध्यते, येनाध्यक्षविरुद्धो निरन्वयविनाशः कल्पनामनुभवति, अध्यक्षविरोधेन प्रमाणान्तरस्याप्रवृत्तेः ।
अनुवृत्तिव्यावृत्त्योश्च परस्परं एकान्तेन विरोधे विज्ञानमात्रमपि न सिद्धयेदिति कुतः 10 क्षणिकत्वं भावानां निरन्वयं विनाशो वा सिद्ध्येत् , अन्तर्बहिश्च भावानामनुगतव्यावृत्ता
स्मकत्वात् प्रमाणतस्तथैवानुभवात् तत्स्वरूपाभावे निःस्वभावतया भावाभावप्रसके । यदि च परस्परल्यावृत्तस्वभावानां परमाणूनां कथश्चिदनुवृत्तस्थूलैकाकारः पारमार्थिको न भवेत् न किश्चिद्वहिरध्यक्षेऽवभासेत, परमाणुपारिमाण्डल्यनानात्वपरोक्षत्वस्वभावानां सश्चितेष्व
प्यणुषु स्थूलैकाकाराध्यक्षस्वभावेन विरोधात् , अविरोधे वाऽनेकान्तत्वप्रसक्तः, तथाभूत15 स्वभावसद्भावेऽपि तेषु पारिमाण्डल्यनानात्वपरोक्षत्वस्वभावानपायात्, अपाये वा पर
माणुरूपतात्यागात्, स्थूलैकाकारस्य तेषु सांवृतत्वे साकाराध्यक्षाजनकत्वेन न किञ्चिदपि तत्र प्रतिभासेत, तदनध्यक्षत्वे तत्प्रत्यनीकस्य स्वभावस्य पारिमाण्डल्यादेश्चक्षुरादिबुद्धौ रसादेरिवाप्रतिभासनात् बहिरर्थशून्यं जगद्भवेत् । स्थूलैकाकारग्राह्यवभासस्य च भ्रान्तत्वे न किश्चित्
कल्पनापोडं प्रत्यक्षमभ्रान्तं भवेत् , तदभावे च प्रमाणान्तरस्याप्यप्रवृत्तरन्तर्बाह्यरूपस्य प्रमेय20 स्याव्यवस्थितेर्न कस्यचिदभ्युपगमः प्रतिक्षेपो वेति निर्व्यापारं जगद्भवेत् । तस्मात्क्षणस्थिति
धर्मणोऽपि बाह्यान्तरलेक्षणस्य वस्तुनः परस्परल्यावृत्तपरमाणुरूपस्य कथञ्चिदनुवृत्तिरभ्युपगन्तव्या, अन्यथा प्रतिभासविरतिप्रसक्तेः, तदभ्युपगमे च परस्परव्यावृत्तयोर्हेतुफलयोरपि प्रत्यक्षगता अनुगतिरभ्युपगमनीयैव, कल्पनाज्ञाने भ्रान्तसंविदि वा स्वसंवेदनापेक्षया विक
ल्पेतरयोर्धान्तेतरयोश्च परस्परव्यावृत्ताकारयोः कथञ्चिदनुवृत्तिमभ्युपगच्छन् कथमध्यक्षा हेतु25 फलयोरनुवृत्ति प्रतिक्षिपेत् , संशयज्ञानं वा परस्परव्यावृत्तोल्लेख द्वयं बिभ्रद्यवेकमभ्युपगम्यते
१ बौद्धाना मते कल्पनापोढमभ्रान्तं ज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणम् , तत्र कल्पना साभिलापा प्रतीतिः, या च वृक्ष इत्यादिरूपेण शब्दार्थघटनायोग्या वाचामप्रयोगऽपि साभिलापेव जायते. तयाऽपोर्ट रहितम्, न तु जात्यादियोजनायोग्या कल्पना, जात्यादेरभावात् । कल्पनापोडं प्रत्यक्षञ्चान्यत्रासक्तमनसा पुरुषेणानीलादिवेदनादतिपरिस्फुटं वेद्यत एव, तच्चाविसंवादित्वादभ्रान्तमिति ॥
"Aho Shrutgyanam'