SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] द्रव्यस्वरूपनिरूपणम् । : १४१ : विशेषावगतेः संशयविरोधित्वात् । न च तदुत्तरकालभाविसादृश्यनिमित्तैकत्वाध्यवसायनिबन्धनेयं संशयाद्यनुभूतिः, पूर्व विशेष ज्ञाते एकत्वाध्यवसायस्यैवासम्भवात् , अनुभूयते च दूरदेशादौ वस्तुनि सर्वजनसाक्षिकी प्राक् सामान्यप्रतिपत्तिः तदुत्तरकालभाविनी च विशेषा. वगतिः, अत एवावग्रहादिज्ञानानां कालभेदानुपलक्षणेऽपि क्रमोऽभ्युपगन्तव्यः, उत्पलपत्रशतव्यतिभेद इव । यदि तु अप्रतिपन्नेऽनुगतरूपे विशेषावभासो बाधकोऽभ्युपगम्यते सोऽभ्यु- 5 पगमोऽसिद्ध एव, अनुगताकाराप्रतिपत्तौ तद्विशेषावभासस्यासम्भवात् । न हि मूलमध्यानानुस्यूतस्थूलैकाकारप्रतिभासनिह्नवे विविक्ततत्परमाणुप्रतिभासानपह्नव इति कुतस्तस्य स्वविषयव्यवस्थापनद्वारेणान्यबाधकत्वम् । न चैकत्वप्रतिभासो मिथ्या, विकल्प्यमानस्य तद्विषयस्याघटमानत्वादिति वाच्यम् ; विकल्पमात्रात् प्रमाणस्यान्यथात्वायोगात् । न चानुगतावभासोऽप्रमाणम् , तन्निमित्ताभावात् । न च क्षणिकानेकानिरंशपरमाण्वव- 10 भासस्तन्निमित्तम् , तस्याभावात् , न ह्यसंवेद्यमानस्तथाभूतावभासः प्रमाणमप्रमाणं वा, तयोः प्रतीतिधर्मत्वात् । सञ्चितपरमाणुष्वपि प्रत्येकं समुदितेषु वा स्थूलरूपतायाः परेणानभ्युपगमात्, सम्बयस्य च वस्तुस्वरूपस्यैकस्य द्रव्यपक्षोदितदोषप्रसङ्गादनिष्टेः सश्चितपरमाणूनामपि तत्र निमित्तत्वासम्भवाच, न ह्यन्यथावभासोऽन्यथाभूतार्थव्यवस्थापकः अतिप्रसङ्गात् , तस्मान्न आलम्बनप्रत्ययतया परमाणवः स्थूलावभासजनकाः, तत्र 15 स्वरूपानर्पकत्वेनाप्रतिभासनात् , स्थूलाकारस्य वा तेष्वनुस्यूतज्ञानावभासिनो भावेऽनुगतव्यावृत्तहेतुफलरूपभावाभ्युपगमात् परवादाभ्युपगमप्रसक्तिः । यदि च स्तम्भादिप्रत्ययो मिथ्या तीतथाभूते तथाभूतारोपणं मिथ्येति अन्यथाभूतवस्तुसद्भावावेदकं प्रमाणं वक्तव्यम् , तञ्च न प्रत्यक्षम् , उक्तोत्तरत्वात् । नाप्यनुमानम् , क्षणिकपरस्परविविक्तपरमाणुस्वभावभावकार्यादर्शनात् स्थूलैकस्वभावस्य चोपलभ्यमानस्य न तत्कार्यत्वम् , तस्यावस्तुसत्त्वेन 20 परैरभ्युपगमात्, न चावस्तुसत् कस्यचिद्व्यवस्थापकम् , अतिप्रसङ्गात् , वस्तुसत्त्वेऽपि न तस्य क्षणिकविविक्तपरमाणुव्यवस्थापकत्वम् , तस्य तव विरुद्धत्वात् । न च वनादिप्रत्ययाच्छिशपादिविशेषावगतिरिवात्रापि भविष्यतीति वक्तव्यम् , शिंशपादेः प्राक् प्रतिपत्तेबनादेश्च तद्धर्मतया वस्तुत्वात् परमाणूनां न कदाचनापि प्रतिपत्तिः । नापि तद्धर्मतया वस्तुत्वाभ्युपगमः स्थूलस्य पराभ्युपगमविषयः, वस्तुत्वाभ्युपगमे तु तस्य स्यात्सूक्ष्मव्यवस्था- 25 पकता, सूक्ष्मापेक्षित्वात् स्थूलस्य, अन्यथा तदयोगात्, सूक्ष्मपर्यन्तश्च परमाणुस्तस्थाभेद्यत्वात् , भेद्यत्वे वा वस्तुत्वापत्तेः तदवयवानां परमाणुत्वापत्तिः, भेदपर्यन्तलक्षणत्वात् परमाणुस्वरूपस्य । न चाणूनामपि ध्रौव्योदयव्यतिरेकेण प्रतिक्षणविशरारुता सम्भवति, तयोरभावे एकक्षणस्थितीनामपि तेषामभावात् कुतो विनश्वरत्वम् । अथ देशकालनियतस्य पदार्थस्य स्थै "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy