________________
: १४० :
सम्मतितत्त्व सोपाने
[ विंशम्
भावाः । द्रव्यार्थिकस्य सर्वं वस्तु अनुत्पन्नमविनष्टं आकालं स्थिरस्वभावमेव मतम्, एतच नयद्वयाभिमतं वस्तु प्राक् प्रतिपादितमेव ॥ ११ ॥
5
10
इति तपोगच्छनभोमणि श्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्स्वसोपानस्य सापेक्षनयनिरूपणं नाम एकोनविंशं सोपानम् ॥
→
अथ द्रव्यस्वरूपनिरूपणम् ।
इतरापेक्षावियुतं नयद्वयप्रदर्शितं वस्तु प्रमाणाभावतो न सम्भवतीत्याह-दवं पज्जव विजयं दव्वविउत्ता य पज्जवा णत्थि । उपायइभंगा हंदि दवियलक्खणं एवं ।। १२ ।। द्रव्यं पर्यववियुक्तं द्रव्यवियुक्ताश्च पर्यवा नास्ति | उत्पाद स्थितिभङ्गा हंदि द्रव्यलक्षणमेतत् ॥ छाया ॥
द्रव्यमिति, पर्यायवियुक्तं द्रव्यं नास्ति, मृत्पिण्डस्थासकोशकुशूलाद्यनुगतमृत्सामा15 न्यप्रतीतेः, द्रव्यविरहिताश्च पर्याया न सन्ति, अनुगतैकाकार मृत्सामान्यानुविद्धतया मृत्पिण्डस्थासादीनां विशेषाणां प्रतिपत्तेः । अतो नयद्वयाभिमतं वस्तु परस्परानुषक्तमेव, नेतरविकलम्, परस्परविविक्तयोः कदाचनाप्यप्रतिभासनात्, तर्हि किम्भूतं द्रव्यमस्तीत्यत्राह - उत्पादेत्यादि, यथाव्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्त्तिनः, हन्दीत्युपप्रदर्शने, एतत्उत्पादस्थितिभङ्गस्वरूपो धर्मो द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापकः, यतः पूर्वोत्तर पर्याय20 हानोपादानात्मकै कान्वयप्रतिपत्तिः तथाभूतद्रव्यसत्त्वं प्रतिपादयतीत्युत्पादव्ययधौव्यल. क्षणं वस्त्वभ्युपगतम् । एतच्च त्रितयं परस्परानुविद्धम् अन्यतमाभावे तदितरयोरप्यभावात् । तथा हि उत्पत्तिव्ययौ न भौव्यव्यतिरेकेण सङ्गतौ, विज्ञानपृथिव्यादिपदार्थमात्रस्य सर्वस्य सर्वदाऽनुस्यूताकारव्यतिरेकेणाप्रतिभासनात् । न चायमवभासोऽसत्यः, तद्वाधकत्वानुपपत्तेः, विशेषप्रतिभास एव हि बाघकोऽस्य वाच्यः, स चानुपपन्नः, अनुगतरूपे प्रतिपन्ने यदि स 25 विशेष प्रतिभासोऽभ्युपगम्यते तर्हि स प्रतिभास: किमनुगतप्रतिभासात्मकः किं वा तद्व्यतिरिक्तः, आद्ये त्वनुगतप्रतिभासस्यासत्यतायां सोऽपि तथा स्यात् ततश्च कथं बाधकः, न द्वितीयः ध्रौव्यप्रतिभासमन्तेरण स्थासकोशादिप्रतिभासस्य तद्भिन्नस्यासंवेदनाद्वाधकत्वानुपपत्तेः । न चेन्द्रियव्यापारानन्तरं विशेषस्यैव प्रतिभासो नान्वयस्येति वाच्यम्, प्रथमाक्षव्यापारे प्रतिनियतदेशवस्तुमात्रस्यैव प्रतीतेः, अन्यथा तत्र विशेषप्रतिभासे संशयाद्यनुत्पत्तिप्रसङ्गः,
"Aho Shrutgyanam"