________________
सोपानम् ]
सापेक्ष निरूपणम् |
उपसर्जनीकृत विशेषं यदन्वयिरूपं तद्यदा द्रव्यमिति विवक्ष्यते तदा द्रव्यार्थिकविषयः, यदा तूपसर्जनीकृतान्वयिरूपं तस्यैव वस्तुनो यदसाधारणं रूपं तद्विवक्ष्यते तदा पर्यायनयविषयस्तद्भवतीति ॥ ९ ॥
एवंरूपभजनाकृतमेव भेदं दर्शयितुमाह-
दवद्वियवत्वं अवत्थु नियमेण पज्जवणयस्स ।
तह पज्जववत्थु अवत्थमेव दव्वट्टियनयस्स ॥ १० ॥
: १३९ :
द्रव्यार्थिक वक्तव्यमवस्तु नियमेन पर्यवनयस्य । तथा पर्यववस्तु अवस्त्वेव द्रव्यास्तिकनयस्य || छाया || द्रव्यार्थिकेति, पर्यायास्तिकस्य द्रव्यास्तिकाभिधेयमस्तित्वमवस्त्वेव, भेदरूपापन्नत्वात्, पर्यायास्तिकाभ्युपगता भेदा अवस्तुरूपा एव द्रव्यास्तिकस्य भवन्ति, सत्तारूपाप - 10 न्नत्वात् । अतो भजनामन्तरेणैकत्र सत्ताया अपरत्र च भेदानां नष्टत्वादिदं द्रव्यमेते च पर्याया इति नास्ति भेदः । न च भासमानयोर्द्रव्यपर्याययोः कथं नयाभ्यामाभ्यां प्रतिक्षेप इति वक्तव्यम्, अप्रतिभासं प्रति प्रतिभासस्य बाधकत्वात्, न तु मिध्यात्वं प्रति, मिध्यारूपस्यापि प्रतिभासनात् । तथाहि पर्यायास्तिकः प्राह, न मया द्रव्यप्रतिभासो निषिध्यते तस्यानुभूयमानत्वात् किन्तु विशेषव्यतिरेकेण द्रव्यस्याप्रतिभासनात्, अव्यतिरेके तु व्यक्तिस्वरूपवत्त- 15 स्यानन्वयादुभयरूपतायाश्चैकत्र विरोधाद्गत्यन्तराभावाद् द्रव्यप्रतिभासस्तत्र मिथ्यैव, विशेषप्रतिभासस्त्वन्यथा, बाधकाभावात्, यतः प्रतिक्षणं वस्तुनो निवृत्तेर्नाशोत्पादौ पर्यायलक्षणं न स्थितिः । द्रव्यार्थिकस्तु भजनोत्थापितस्त्ररूपः प्राह - अस्माकमप्येवमेवाभ्युपगमः, न विशेष प्रतिभासप्रतिक्षेपः, किन्तु तस्य भेदाभेदो भय विकल्पै बध्यमानत्वान्निध्यारूपतैव । अभेदप्रतिभासस्तु अनुत्पादव्ययलक्षणस्य द्रव्यस्य तद्विषयस्य सर्वदाऽवस्थितेर बाध्यमानत्वात् 20 सत्य इति ॥ १० ॥
एवंलक्षणयोः कल्पना व्यवस्थापितद्रव्यपर्यायास्तिकयोः मिथ्याप्रतिपत्तिः सुकरेत्याह---
उपजंति वियंति य भावा नियमेण पज्जवणयस्स । दहियस्स सव्वं सया अणुष्पन्नमविण ॥। ११ ॥
उत्पद्यन्ते वियन्ति च भात्रा नियमेन पर्यवनयस्य । द्रव्यास्तिकस्य सर्वे सदा अनुत्पन्नमविनष्टम् ॥ छाया ॥
उत्पद्यन्त इति, उत्पद्यन्ते प्रागभूत्वा भवन्ति वियन्ति निरन्वयरूपतया नाशमुपयान्ति नियमेन ये भावास्ते पर्यवनयस्याभिमताः, तन्मतेन हि प्रतिक्षणं भावा उत्पादविनाशस्त्र
"Aho Shrutgyanam"
5
25