________________
: १३८ :
5
सम्मतितस्वसोपाने
पज्जवणयवोक्तं वत्थं दव्वट्ठियस्स वयणिज्जं । जाव दविओवओगो अपच्छिमवियप्पनिव्वणो ॥ ८ ॥
पर्यवनयव्युत्क्रान्तं वस्तु द्रव्यार्थिकस्य वचनीयम् । यावद्द्रव्योपयोगोऽपश्चिमविकल्पनिर्वचनः ॥ छाया ||
पर्यव इति यावद्द्रव्योपयोगः अपश्चिमविकल्पनिर्वचनरूपः प्रवर्त्तते तावद्रव्यार्थिकस्य वचनीयं वस्तु, तच्च पर्यायाक्रान्तमेव । अन्यथा ज्ञानार्थयोरप्रतिपत्तेरसत्त्वप्रसक्तिः, पर्यायानाक्रान्तसत्तामात्रसद्भावग्राहकस्य प्रत्यक्षस्य अनुमानस्य प्रमाणस्याभावात्, द्रव्यादिपर्यायविशिष्टस्यैव सर्वदा सत्तारूपस्य ताभ्यामवगतेरिति, वचनीयं परिच्छेद्यो विषयः । निश्चयकर्तृ वचनं निर्वचनम्, त्रिकल्पश्च निर्वचनञ्च विकल्पनिर्वचनं, न विद्यते पश्चिमं यस्मिन् 10 विकल्पनिर्वचने तत्तथा, तथाविधं तद् यस्य द्रव्योपयोगस्यासौ अपश्चिमविकल्पनिर्वचनः सहावसान इति यावत्, ततः परं विकल्पवचनाप्रवृत्तेः ।
20
[ एकोनविंशम्
यद्वा यद्वस्तु सूक्ष्मतरतमादिबुद्धिना पर्यायनयेन स्थूलरूपत्यागेनोत्तरतत्तत्सूक्ष्मरूपाश्रaणात् व्युत्क्रान्तं गृहीत्वा त्यक्तम्, यथा किमिदं मृत्सामान्यं घटादिभिर्विना प्रतिपत्तिविषयः, एवं यावच्छ्रुक्लतमरूपस्वरूपोऽन्त्यो विशेषः, एतद्रव्यार्थिकस्य वस्तु विषयः, यतो यावदपश्चि15 मविकल्पनिर्वचनोऽन्त्यो विशेषः, तावद्द्रव्योपयोगः द्रव्यज्ञानं प्रवर्त्तते, न हि द्रव्यादयो विशेषान्ताः सदादिप्रत्ययाविशिष्टैकान्तव्यावृतबुद्धिप्राह्यतया प्रतीयन्ते, न च तथाऽप्रतीयमानास्तथाभ्युपगमार्हाः अतिप्रसङ्गादिति ॥ ८ ॥
विशेषरहिता सत्ता सत्ताशून्यश्च विशेषो नास्तीत्येतदेवोपसंहरति---
दहिओ त्ति तम्हा नस्थि णओ नियमसुद्धजाईओ । णय पजवडिओ णाम कोइ भयणाय उ विसेसो ॥ ९ ॥
द्रव्यार्थिक इति तस्मान्नास्ति नयो नियमेन शुद्धजातीयः ।
न च पर्यायार्थिको नाम कोऽपि भजनायास्तु विशेषः ॥ छाया ||
द्रव्येति यस्मात् परस्परानाक्रान्तयोर्द्रव्य पर्याययोरप्रतीयमानत्वं तस्मान्नियमेन शुद्धजातीयः विशेषविनिर्मुक्तो द्रव्यार्थिक इत्यभिधानो नयो नास्ति, विषयाभावेन तद्विषयज्ञान25 स्याप्यभावात् । एवं सामान्यविनिर्मुक्तः पर्यायार्थिक इति नाम न च कोऽपि नयो विद्यते यदि विषयाभावादिभौ नयौ न स्तस्तर्हि तीर्थकरवचनसङ्ग्रहेत्यायुक्तं वचनं विरुद्धं भवेदित्यत्राह भजनायास्त्विति, विवक्षाया एव विशेषः, इदं द्रव्यमयं पर्याय इत्ययं भेदः, तद्भेare विषयिणोऽपि तथैव भेद इत्यभिप्रायः, भजना च सामान्यविशेषात्मके वस्तुतत्त्वे
" Aho Shrutgyanam"