________________
सोपानम् }
सापेक्षनयनिरूपणम् ।
नयद्वयस्य सदसदर्थतानिरूपणम् ।
एतदपि नयद्वयं शास्त्रस्य परमहृदयम, द्रव्यं पर्यायाशून्यं पर्यायाश्च द्रव्याविरहिण इत्ये वम्भूतार्थप्रतिपादनपरं नान्यथेत्यस्यार्थस्य प्रदर्शनार्थमाह-
पज्जवणिस्सामण्णं वयणं दव्वद्वियस्स अत्थित्ति । अवसेसो वयणविही पज्जवभयणा सपडिवक्खो ॥ ७ ॥
૧૮
पर्यायनिस्सामान्यं वचनं द्रव्यार्थिकस्य अस्तीति । अवशेषो वचनविधिः पर्यवभजनात् सप्रतिपक्षः ॥ छाया ॥
: १३७ :
पर्यायेति, पर्यायनयेन सह निस्सामान्यं - असाधारणं द्रव्यास्तिकस्य वचनं अस्तीत्येरूपं भवति, भेदवादिसम्मतविशेषस्य सत्तारूपतानुप्रवेशात्. वचनमिदं निर्विषयं विशेषशून्यत्वाद्गगनकुसुमवचनवत्, तदेवमेकान्तभावनाप्रवृत्तस्य द्रव्यास्तिकनयस्य वचनं न 10 परमार्थम् । एवंप्रवृत्तपर्यायास्तिकस्यापि वचो न परमार्थमित्याह अवशेष इति, अवशेषो वचनविधिः- सत्ताशून्यविशेषप्रतिपादक उपर्युक्तादन्यो वचनविशेषः पर्यायेषु सत्ताव्यतिरिक्तेषु असद्रूपेषु भजनात् - सत्ताया आरोपणात् सप्रतिपक्षः, सतो विरोधी, असन् भवतीत्यर्थः । पर्यायप्रतिपादको वचनविधिरवस्तुविषयः निःसामान्यत्वात् खपुष्पवत् । यद्वा वस्तुज्ञानयोः स्वरूपमुक्त्वाऽभिधानस्य द्रव्यास्तिकपर्यायास्तिकस्वरूपस्य तदभिधायकस्य वा प्रति- 15 पादनायाह पर्यायेत्यादि, पर्यायान्निष्क्रान्तं तद्विकलं सामान्यं सङ्ग्रहस्वरूपं यस्मिन् वचने तत्पर्य - वनिःसामान्यं वचनम्, तद्वचनश्च अस्तीत्येवं रूपम्, तच्च द्रव्यार्थिकस्य स्वरूपं प्रतिपादकं वा । अथवा पर्यायः ऋजुसूत्रनयविषयादन्यो द्रव्यत्वादिविशेषः स एव निश्चितं सामान्यं यस्मि - स्तत् पर्यायनिःसामान्यं वचनम्, द्रव्यादिसामान्यविशेषाभिधायीति यावत् । तञ्चाशुद्धद्रव्यार्थिकसम्बन्धि, तत्प्रतिपादकत्वेन तत्स्वरूपत्वेन वा । अवशेषो वचनविधिः वर्णपद्धतिः सप्रतिपक्षः, अस्य वचनस्य पर्यायार्थिकनयरूपः तत्प्रतिपादको वा पर्यायसेवनात्, अन्यथा कथमवशेषवचनविधिः स्याद्यदि विशेषं नाश्रयेदिति । समुदायार्थस्तु द्रव्यास्तिकस्याननुषक्तविशेषं वचनमस्तीत्येतावन्मात्रम्, पर्यायास्तिकस्य तु अपरामृष्टसत्तास्वभावं द्रव्यं पृथिवी घटः शुकः इत्याद्याश्रितपर्यायम् । अन्योन्यापेक्षारहितञ्चो भयनयवचोऽसदेव, वचनार्थस्यासत्वात वचनस्यादर्थत्वे तदर्थस्याप्यसत्त्वादिति ॥ ७ ॥
अनैकान्तभावनयैवैषां नयानां सत्यता नान्यथेत्यादर्शयितुं ज्ञानानेकान्तं तावदाह
"Aho Shrutgyanam"
5
20
25