SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने : [ ान र्शनस्यैवाभावव्यवहारसाधकत्वात्, अदर्शनमात्रस्य तु सत्यपि वस्तुनि सम्भवात् तत्र न प्रमाणता । न हि सर्वं वस्तु सर्वदा दर्शनयोग्यम्, चक्षुर्व्यापाराभावे वस्तुनोऽप्रतिभासनात्, तदैव च चक्षुर्व्यापारात् परेणोपलम्भात् । तस्मान्न पूर्वापरयोरनुपलम्भमात्राभावनिश्चय इति न प्रत्यक्षानुमानाभ्यां क्षणिकतावगमः, न चैतद्व्यतिरिक्तं प्रमाणान्तरं परैरभ्युपगम्यत 5 इति कुतः क्षणिकत्वसिद्धिः । अतो न पर्यायास्तिकाभिमतपूर्वापरक्षणविविक्तमध्यक्षमात्रं वस्तु किन्तु अतीतानागतपर्यायाधारमेकं द्रव्यवस्त्विति द्रव्यार्थिकनिक्षेपः सिद्धः ॥ १३६ : द्रव्यं चानुभूतपर्यायमनुभविष्यत्पर्यायश्वैकमेव, तेनानुभूतपर्यायशब्देन तत्कदाचिदभिधीयते कदाचिच्चानुभविष्यत्पर्यायशब्देन यथातीतघृतसम्बन्धो भविष्यद्धृतसम्बन्धो वा घटो घृत इत्यभिधीयते । शुद्धतरपर्यायास्तिकेन च निराकारस्य ज्ञानस्यार्थप्राहकत्वासम्भवा10 त्साकारं ज्ञानमभ्युपगतम्, तत्संवेदनमेव चार्थसंवेदनम्, ज्ञानानुभवव्यतिरेकेणा परस्यार्थानुभवस्याभावात्, घंटोपयोग एव घटस्तन्मतेन । तत्पर्यायेणातीतेन परिणतं परिणस्यद्वा द्रव्यं तच्छब्दवाच्यं द्रव्यार्थिकमतेन व्यवस्थितम् । अत एव घटाद्यर्थाभिज्ञः तत्र चानुपयुक्तो द्रव्यमिति प्रतिपादितः द्रव्यार्थिक निक्षेपश्च । द्रव्यमागमेऽनेकधा प्रतिपादितम्, इह तु युक्तिसंस्पर्शमात्रमेत्र प्रदर्श्यते तदर्थत्वात् प्रयासस्य || 15 भवति विवक्षित वर्त्तमानसमयपर्याय मात्रेणोत्पद्यत इति भावः । अथवा भूतिर्भावः, किरीटा दिधारणवर्त्तमानपर्यायेणेन्द्रादिरूपतया वस्तुनो भवनम्, तद्ब्रहणपर्यायेण वा ज्ञानश्य भवनम् । यथा चायं पर्यायार्थिकप्ररूपणा तथा प्रदर्शित एव प्राक् न पुनरुच्यते । एष एव नयनिक्षेपानुयोगप्रतिपादित उभयनयप्रविभागः परमार्थः परमं हृदयमागमस्य, एतद्व्यतिरिक्तविषयत्वात्सर्वनयवादानाम्, नहि शास्त्रपरमहृदयनयद्वयव्यतिरिक्तः कश्चिन्नयो विद्यते, सामा20 न्यविशेषद्वयव्यतिरिक्तविषयान्तराभावात्, विषयिणोऽप्यपरस्य नयान्तरस्याभाव इति प्राकू प्रतिपादितमिति ॥ ६॥ इति तपोगच्छन भोमणि श्रीमद्विजयानन्द सूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिन विन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्व सोपानस्य निक्षेपचतुgrवर्णनं नाम अष्टादशं सोपानम् ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy