________________
सोपानम् ।
निक्षेपचतुष्टयवर्णनम् । प्रवृत्तेः, अनुमानात्तत्प्रतिपत्तौ स्वनवस्था । नन्वर्थक्रियास्वरूपं सत्त्वं नित्येऽसम्भवि, अन्यथा भूतन्तु सत्त्वं न सम्भवतीति सर्वे भावाः क्षणक्षयिणः, अर्थक्रियायोगश्च क्रमयोगपद्याभ्यां व्याप्तः, ते च नित्ये न सम्भवतः, नित्यस्य सकलकार्यकरणसामथ्र्य स्वरूपतो यदि तर्हि एकदैव सकलकार्योदयः स्यान क्रमेण, कालविलम्बायोगात्, सहकार्यपेक्षा च नित्याविचलितरूपस्य न सम्भवति, सहकारिकृतातिशयस्याव्यतिरिक्तस्य तत्रासम्भवात् , स्थायित्वात् । 5 अतिरिकातिशयजननेऽपि सहकारिभिस्तस्य न किमपि कृतमिति न नित्यं क्रमेण करोति, युगपदपि न करोति प्रतिक्षणं तस्मानिखिलकार्योदयप्रसङ्गात् , पूर्वोत्तरकालयोरपि तत्स्वभावाप्रच्युतेरिति चेन्न, क्रमेणोत्पत्तिमत्या अर्थक्रियाया भिन्नत्वे हेतोर्मेंदासम्भवात् , न ह्यन्यभेदादन्यद्भिन्नमतिप्रसङ्गात् , न हि हेतोरेकस्वभावत्वेऽर्थक्रियया युगपद्भवितव्यमित्यस्ति नियमः, किन्तु यदि कारणसद्भावेऽर्थक्रिया युगपदुपलभ्येत तदा युगपदुदेतीति व्य- 10 वस्था भवेत् , न हि कारणाभेदेऽपि ततो युगपदुदयमासादयन्ती सा लक्ष्यत इत्यनुभवया, धितमर्थक्रियायोगपद्यम् । न च क्रमवदर्थक्रियोत्पादः प्रतिक्षणक्षयित्वाविनाभूतः कचि. दुपलब्धः, येन तदुदयक्रमात्तद्धेतोः प्रतिक्षणभेदः सिद्धिमासादयेत् , न चार्थक्रियापि प्रतिक्षणं भेदवती सिद्धा, तत्कथं स्वयमसिद्धा हेतोः प्रतिक्षणभेदमवगमयति । न च सौगतानां कालाभावादर्थक्रियाक्रमो युक्तिसङ्गतः। यदि ह्यतीतानागतवर्तमानकालभेदसङ्गतिमासादयेयुः 18 कार्याणि तदा क्रमवन्ति भवेयुः, न च कार्यपरम्पराव्यतिरिक्तः कालः सौगतैरभ्युपगत इति भिन्नफलमेव तिष्ठति, न च फलभेदमात्राद्धेतुभेदव्यवस्था कत्तुं शक्या, एकस्यापि प्रदीपादे. रेकदाऽनेककार्यकरणात् । भवतु वाऽर्थक्रियालक्षणं सत्त्वम् तथापि नातः क्षणक्षयानुमानम , तेन भावानां क्षणस्थायितायाः साधने सिद्धसाधनम् , नित्यस्यापि भावस्य क्षणावस्थानात्, अन्यथा सदाऽवस्थानमेव न भवेत् , तस्य श्रणावस्थाननियतत्वात् क्षणान्तरादिस्थितेः । क्ष• 20 णादूर्ध्वमभावस्य साधनन्तु न सम्भवति, अभावेन सह तस्य प्रतिबन्धाभावात् , न चाप्रतिबन्धविषयः शशविषाणादिवदनुमेयः । किश्च अर्थक्रिया समानकालं साध्यं किं साधयेत् , कि वा भिन्नकालम् , यदि समानकालं क्षणसद्रूपं साध्यं साधयति तदा तत्समानकालभाविनः क्षणसत्तामात्रस्य सिद्धत्वात्सिद्धसाध्यता, अभावेन च प्रतिबन्धाभावान्न ततस्तत्सिद्धिः । अथ भिन्न कालं साधयति तत्रापि प्रतिबन्धाभावान्न ततस्तत्सिद्धिः, न हि भिन्नकालेन विद्यमाने नाविद्यमानेन वा सत्तायाः कश्चिदविनाभाव इति यत्राविनाभावः तत्र विप्रतिपत्ति स्ति यत्र च विप्रतिपत्तिर्न तत्राविनाभाव इति न सत्तातः क्षणक्षयानुमानम् । न च सवं वर्तमान. कालभावित्वम् , तच्च पूर्वापरकालसम्बन्धविकलतया क्षणिकत्वं तदात्मकतया भावानां प्रक. टयति, यतो वर्तमान क्षणिकमिति कुतो ज्ञायते, पूर्वापरयोस्तत्रादर्शनादिति चेन्न दृश्याद
"Aho Shrutgyanam'