SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ : १३४ : सम्मतितत्त्व सोपाने [ अष्टादशम् तिहतिः, न च नित्याध्यवसाय सन्निधानमेव तस्य प्रतितिः, वैपरीत्यप्रसङ्गात्, सन्निधेरविशेषात्पूर्वोत्तरकालभावित्वात् प्रतिहतिरिति चेन्न पौर्वापर्यस्याकिञ्चित्करत्वात् । किञ्च वि जातीयविकल्पोदयेऽपि विशददर्शनस्य प्रतिहतिप्रसक्त्या पीताद्यध्यवसायसमये नीलादिकं न प्रतिपन्नं स्यात् । न च विजातीयत्वात् पीतविकल्पो नीलादिदर्शनस्य न प्रतिघातक इति 5 वक्तव्यम्, नित्यताध्यवसायस्यापि विजातीयत्वेन क्षणिकदर्शनं प्रति प्रतिघातकत्वाप्रसक्तेः । आकारभेदादेव हि अन्यत्रापि विजातीयत्वं तच नित्यानित्ययोरपि तुल्यमेव । न च प्रथमो. त्पन्नक्षणिक दर्शन समानाधिकरणतया नित्योल्लेखस्योत्पत्तेः प्रतिघातकत्वम्, विरुद्धाकारावभासिनोः प्रत्यययोः सामानाधिकरण्यानुपपत्तेः, अन्यथाऽतिप्रसङ्गात् । तस्मान सामानाधिकरण्यात्तत्प्रतितिरिति अध्यक्षस्वरूपनित्यताबाधकप्रमाणनिश्श्रेयो न क्षणक्षयसत्तयोरविनाभाव 10 इति न सत्तातः क्षणक्षयसिद्धिः । न चानुमानरूपेण बाधकेन क्षणक्षयाविनाभूता सत्ताऽध्यवसीयते, तदनुमानेऽप्यविनाभावस्यान्यानुमानबलात् प्रसिद्ध्यभ्युपगमादनवस्थाप्रसक्तेः । ननु अर्थक्रियालक्षणं सत्त्वम्, नित्ये क्रमयौगपद्याभ्यामर्थं क्रियाविरोधात्ततो व्यावर्त्तमानं क्षणिक एवावतिष्ठत इति तेन व्याप्तं सत्त्वं सिद्ध्यति, इदमेव क्षणक्षयानुमानस्यान्यथासिद्धत्वे बाधकं प्रमाणमिति चेन्न, सस्वनित्यत्वयोर्विरोधासिद्धेः, तयोर्हि विरोधः किं सहानवस्थान15 लक्षणः, परस्परपरिहारस्थितिलक्षणो वा भवेत्, नाद्यः, स हि विरोध: पदार्थस्य पूर्वमुपलम्भे पश्चात् पदार्थान्तरसद्भावादभावावगतौ निश्चीयते शीतोष्णयोरिव । न च नित्यतावभासिदर्शनमुदेति, उदये च विशददर्शने नित्यताप्रतिभासेन तस्या विद्यमानतया न सर्वे भावाक्षणिका भवेयुः । न द्वितीयो विरोधस्तयोः, नित्यत्वपरिहारेण सत्तायास्तत्परिहारेण नित्यत्वस्य वाऽनवस्थानात्, क्षणिकतापरिहारेण क्षणिकता तत्परिहारेण च क्षणिकता व्यवस्थितेति अन20 योरेव परस्परपरिहारस्थितिलक्षणो विरोधः । न चार्थक्रियालक्षणा सत्ता क्षणिकतया व्याप्तेति नित्यताविरोधिनी सेति वक्तव्यम्, अन्योन्याश्रयात्, नित्यत्वविरोधेन हि अर्थक्रियालक्षणसस्वस्य क्षणिकत्वव्याप्तत्वं सिद्ध्यति, नित्यत्वविरोधश्च सत्त्वस्य क्षणिकत्वव्याप्तिसिद्धाविति । न चान्वयनिश्चयद्वारेण सत्वक्षणिकत्वयोरविनाभावः सिद्ध्यति, प्रत्यक्षस्यान्वयग्राहितयात्रा स्वेऽभ्युपगते न सविकल्पकेन निर्विकल्पस्याभिभवः, रूपादिषटू ज्ञानस्य गोविकल्पसमयेऽश्वदर्शनस्य भवन्मते सहोत्पत्त्या न प्रतिबध्यप्रतिबन्धकभावः, समकालतया च निर्विकल्पकैन सविकल्पकमेव कुतो न प्रतिहृतं भवेत् विनिगमकाभावात् सविकल्पकस्य बलीयस्त्वादभिभावकत्वमिति चेत् किं बहुविषयत्वात् किंवा निश्चयात्मकत्वाद्वलीयस्त्वम्, नायः, निर्विकल्पकविषय एव विकल्पप्रवृत्तिस्वीकारात् अन्यथा विकल्पोऽगृहीतार्थ ग्राहकत्वात् प्रमाणं भवेत् । न द्वितीयः, स्वस्वरूपे निश्रयात्मकत्वे तस्य प्रत्यक्षत्वासम्भवात् इष्टञ्च तस्य प्रत्यक्षत्वम्, सर्ववित्तचत्तानामात्मसंवेदनं प्रत्यक्षमित्यभ्युपगमात् । अर्थरूपे निश्रयात्मकत्वे विकल्पस्य निश्वयानिश्चयस्वभावद्वयप्रसङ्गादिति ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy