SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] निक्षेपचतुष्टयवर्णनम् । णानां तत्कालविद्यमानताया अनुपयोगित्वात् , यत्र चान्त्यसंख्येयग्रहणसमये पूर्वावगतसंख्येयानामभावस्तत्र यथा तेषामुपयोगस्तथा पूर्वकालादिताया अपि तदविशिष्टाया उपयोगो भविष्यतीत्यनवद्यम । अथापि वर्तमानतापरिच्छेदसमये तदभावनियतभावत्वान्न पूर्वताद्यवगतिर्भावानाम् , नीलपरिच्छेदे पीतादीनामिव । पीतादयो हिं नीलप्रच्युत्यविनाभूताः, नीलपरिच्छेदकश्च प्रमाणं नीलप्रच्युतेरिव तद्व्याप्तपीतादिव्यवच्छेदं कुर्वदेव नीलं परिच्छि- 5 नत्ति, तदिदानीन्तनपदार्थपरिच्छेदाय प्रवृत्तं प्रमाणं तत्प्रच्युत्यविनाभूतान् व्यवच्छिनत्ति, वर्त्तमानश्च समयस्तत्प्रच्युत्या विरुद्ध इति तद्व्याप्तावप्यतीतानागतो तेन विरुद्धाविति तदव. च्छिन्नस्यापि भावस्य वर्तमानावच्छिन्नेन सह न समावेशः, तयोः परस्परपरिहारत्वेन विरोः धात् , तेन वर्तमानसम्बन्धिताग्राहकेण प्रमाणेन तत्प्रच्युत्यविनाभूतस्य व्यवच्छेद्यस्य व्यवच्छेदमकुर्वाणेन वर्तमानसम्बन्धित्वमेव न परिच्छिन्नं भवेत् , ततः पूर्वापरसमयसम्बन्धिनो- 10 नात्वे यन्नानाभूतानामेकत्वग्राहि प्रमाणं तस्यात स्मिस्तद्ब्रहणरूपत्वादप्रामाण्यम् , अत एवे. कत्वाध्यवसायस्य सदृशापरापरेत्यादिभ्रमनिमित्तादुत्पादः परिगीयत इति चेन्मैवम् , एकत्वेन निश्चीयमानस्य परस्परविरुद्धकालादिव्यवच्छेदान्नानात्वाभावात , छत्रकुण्डलाद्यवच्छिन्नस्थ देवदत्तादेरिव । तदभावव्याप्तभावलक्षणस्य विरोधस्य सहसम्भविनामपि भावात् , ततो विरुद्धावच्छिन्नस्य नानात्वे तु देवदत्तस्यापि नानात्वप्रसङ्गः । न चेष्टापत्तिः, एकप्रतिभा- 15 सबलादेकत्वासिद्धेः, अन्यथा नीलादिपरमाणूनां दिक्षदयोगाद्भेदापत्त्या तदवयवानामपि भेदापत्तितोऽनवस्थाप्रसक्तेः प्रतिभासविरतिलक्षणाऽप्रामाणिकी शून्यता भवेत् । तदेवेदमिति ज्ञानस्यानिन्द्रियजत्वेऽप्यलिङ्गस्य प्रामाण्यमभ्युपगन्तव्यम् , बाधाभावादनेन प्रतीय. मानस्य वस्तुतः पूर्वापरकालभावित्वं पूर्वापरदर्शनविषयत्वं चावसीयत इति चाभ्युपगन्तव्यम् , अन्यथाऽनक्षालिङ्गप्रत्ययस्य निश्चयात्मनो बाधारहितस्यैवंजातीयस्थ कस्यचिस 20 प्रामाण्यानभ्युपगमेऽक्षस्य सन्निहितार्थमात्रवाहित्वेन लिङ्गजस्यानवस्थाप्रसक्तितः सकलपदार्थाक्षेपेण प्रतिबन्धग्राहकत्वायोगादमुमानप्रवृत्तेरभाव इति कुतः क्षणिकत्वादिधर्मसिद्धिः; यथोक्तविकल्पस्य च प्रामाण्ये कथं न क्षणक्षयानुमानबाधेति । किञ्च क्षणविनश्वरतां भावानां यद्यध्यक्षमवभासयति तदा कुतो न तदनुसारी निश्चयोदयः, सादृश्यदर्शनाद्धान्तेने तदुदय इति चेन्न, सादृश्ये प्रमाणाभावात् । विपरीतनिश्चयोत्पादात् क्षणिक: 25 ताप्रतिभासप्रतिहतिर्यद्यभ्युपगम्यते तर्हि पुरोवर्तिस्तम्भादौ विजातीयस्मरणसमये तत्र.अणक्षयनि सो भवेत् , नित्यतोल्लेखाभावात् । अपि च क्षणिकत्वाक्मासिसंवेदनं स्थापिताध्यवसायश्च परस्परासंसक्तरूपं प्रत्यक्षद्वयं यादयमासादयति तदा क्षणक्षयावभासस्य न काचित्प्र १ क्षणिकत्वाध्यवभासिनिर्विकल्पकस्य म्धायिनाध्यवमाशिसविकल्पकस्य च सहोत्पत्तिलक्षणयुगपत्ति "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy