SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ : १३२ : सम्मतितश्वसोपाने [ अष्टादशम् सिजादिषु प्रत्यभिज्ञाया उपलम्भादेकत्वे सा न प्रमाणमिति चेत्तर्हि शंखादी कामलोपहतां कनकाकारनिर्भासिदर्शनस्योदयेन तस्य स्वर्णादावपि प्रमाणत्वाभावप्रसङ्गः । ननु शुक्रतासाधकमनुमानमन्यथासिद्धत्वात्प्रत्यक्ष बाध्यम्, प्रत्यक्षस्यानन्यथासिद्धत्वात्, नानुपहतेन्द्रियस्य पीतावभासिदर्शनं पीतार्थव्यतिरेकेण सम्भवति कनकादौ तु शुक्लतासाधकमनुमानमन्यथा5 सिद्धम्, स्तम्भादौ च नित्यतावेदकाध्यक्षस्य कुतश्चिद्धान्ति कारणादन्यथासिद्धत्वेनानन्यथासि द्धानुमानबाधकत्वमयुक्तम् । सति हि प्रतिबन्धग्रहणेऽनुमितिः, प्रतिबन्धग्रहणञ्च साध्यव्यतिरेकेण साधनस्याभवनज्ञानम्, तदेव तस्यानन्यथासिद्धत्वं उच्यते, अत एवानुमानस्य प्रामाण्यमाकुर्वता तत्प्रतिबन्धप्र साधकप्रमाणस्याप्रामाण्यमुपदर्शनीयम्, येन प्रतिबन्धा सिद्ध्याऽनुमानं प्रामाण्यादपाक्रियेत, निश्यताप्रसाधकस्य त्वध्यक्षस्य आस्तामन्यथासिद्धानुमानेन तुल्यकक्ष10 वम्, तत्प्रतिबन्धप्रसाधकेन तु न तुल्यकक्षता, क्षणिकताविपरीत नित्यतालक्षणार्थमन्तरेणानुपजायमानमध्यक्षं तथाभूतमर्थं व्यवस्थापयत् क्षणिकत्वानुमानबाधकमुच्यते, न चाध्यक्षा - वसेयं नित्यत्वं वस्तुनो व्यस्थापयितुं शक्यम्, पूर्वापरकालताविष्टं हि वस्तु अध्यक्षावसेयम्, तच्च नित्यत्वं न वस्तुधर्मः, वर्त्तमानकालं हि वस्तु, पूर्वापरकालभावित्वञ्च वर्त्तमानवस्तुविरु द्धत्वान्न तद्धर्मत्वेनावस्थापयितुं युक्तमिति प्रत्यभिज्ञाप्रमेयस्य यथाप्रतीत्यसम्भवाद्बाधकप्र15 माणेनाप्यं तुल्यकक्षत्वात्तद्राहिणोऽध्यक्षस्य कुतः क्षणक्षयानुमानबाधकता । न च प्रत्यक्षस्याभासत्वेऽनुमानं बाधकम्, अनुमानस्य प्रामाण्ये व प्रत्यक्षस्याभासतेत्यन्योऽन्याश्रय इति वक्तव्यम्, प्रतिबन्धसाधकप्रमाणनिबन्धनत्वादनुमानप्रामाण्यस्य, न तु प्रत्यक्षस्याभासनिबन्धनत्वादिति, मैवम् परिच्छिद्यमानस्तुनः पूर्वकालतानिश्चयेऽपि प्रत्यक्षस्य वस्तुधर्मं ग्राहकतया यथाप्रतीति तद्विषयस्य सम्भवात्, तथाहि तस्य पूर्वकालसम्बन्धिता स्वरूपेण गृह्यते, न स्त्रि 20 दानीन्तन सम्बन्धितानुप्रवेशेन तेनेदानीं यद्यपि कुतश्चिन्निमित्तात्तस्य पूर्वकाला दिवमवसीयते तथापि तद्ब्राहकमध्यं कथं न वस्तुग्राहकमिति कुतस्तस्याप्रामाण्यम् । यदि ह्यविद्यमानं पूर्वकालादित्वं विद्यमानं वर्त्तमानारोपेणाध्यवस्येत् तदा भवेदस्यायथार्थग्राहित्वादप्रामाण्यम्, एतच्च नास्तीति कुतोऽस्याप्रामाण्यप्रसक्तिः । न च सन्निहितवस्तुभूतेनाध्यक्षेण पूर्वकालसम्बन्धित्वं न परामृश्यतेऽविचारकत्वादिति वाच्यम्, असन्निहितस्यापि तस्य वर्त्तमानव25 स्तुनि सन्निहितविषयबलोद्भूतेनाध्यक्षेण निश्चयात्, यथाऽन्त्य संख्येयग्रहणकाले शतमितिप्रतीतिः क्रमप्रतीतानपि संख्येयान्निश्चिनोति । न चैषानिन्द्रियजा, इन्द्रियान्वयव्यतिरेकानुविधानात् नाप्यनर्थजा, अन्त्य संख्ये यजन्यत्वात् । न चैकावभासिनी, आदावेकप्रतिपत्तिसमये शतमित्यप्रतिपत्तेः न चाप्रमाणमेषा, बाधकाभावात् । न च विशिष्टप्रतिपत्तिकाले संख्येयाः सर्वे वर्त्तन्ते पूर्वकालत्वन्तु नास्तीति न तत्रोपयोग इति वक्तव्यम्, गृह्यमा , "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy