SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] निक्षेपचतुष्टयवर्णनम् । भावान्तरम् , आये घटस्याभिधानान्तरमेव विहितं घटस्वरूपन्त्वविचलित प्रतीयत इति कथं न नित्यम् , न चैकक्षणस्थायिघटस्वरूपं प्रच्युतिरित्यतो न तस्य नित्यता, एकक्षणस्थायितया घटस्य प्रतीत्यगोचरत्वात्प्रच्युत्यसम्भवात् । द्वितीये कपालप्रादुर्भावात् प्राक् घट. स्यावस्थानात् कालान्तरस्थायितैव भवेन्न क्षणिकता। न च कपालरूपप्रच्युत्यभ्युपगमे मुद्गरा. दिव्यापारानन्तरमपि पूर्ववद्धटाद्युपलब्धिप्रसङ्ग इति वाच्यम् , न हि घटस्वरूपं मुद्रादिना 5 क्रियते तस्य स्वहेतोरेव निष्पत्तेः । न वाऽसती स्वरूपप्रच्युतिरुत्पद्यते, तत्र परैर्हेतुव्यापारानभ्युपगमात् , तस्मान्मुद्गरादिना कपालरूपप्रच्युतिविधानान्न विनाशो निर्हेतुको न वोपलब्ध्यादि प्रसङ्गः । न च कथं कपाललक्षणवस्त्वन्तरप्रादुर्भावे घटो विनष्ट इति व्यपदेशः, मुद्गरादेर्घटस्यैव कपालभावात्तदुपपत्तेः । कथं स एवान्यथा भवतीतिचेन्न, कथमसद्भवतीत्यपि तुल्यत्वात् , यथाहि प्रागसद्धटादि सद्भवत्युत्पत्तिसमयेऽविरोधात् तथाऽन्यदा सन् घटः कपालीभवतीत्य- 10 विरुद्धमेव । तथा च कारणस्य निवृत्तिः कार्यात्मना परिणतिरेवाभिधीयतेऽतः कुतः क्षणिकत्वम् । न च वक्तव्यमेकत्वाध्यवसायिदर्शनस्य क्षणिकताव्यवस्थापकमनुमानं बाधकमिति, अध्यक्षमूलकस्यास्य तदाधकतयाऽप्रवृत्तेः । न च स्थायितादर्शनमनुमानबाधित मिति नाध्यक्षतामनुभवतीति वाच्यम् , क्षणक्षयानुमानस्याप्यध्यक्षेण बाधितत्वादनुमानत्वाननुभवनात् । न हि प्रतिक्षणविशरारुतावभास्यध्यक्षमनुभूयते येन स्थायिताध्यक्षं बाधितं भवेत् । न च लून- 15 पुनर्जातकेशादिष्वपि प्रत्यभिज्ञानोदयात्ततः स्थायिताप्रतीतिः सर्वत्र अलीकेति वाच्यम् , दृष्टान्तमात्रादर्थसिद्धेरभावात् , अन्यथा हेतूपन्यासवैयर्थ्यात् । ननु कथं प्रमाणे प्रत्यभिज्ञेति चेत् , कारणदोषाभावात् , बाधारहितापूर्वार्थवाहित्वाच्च, प्रथमदर्शनेन ह्यनधिगतां स्थायितां प्रत्यभिज्ञानमध्यवस्यति विश्वासादिव्यवहारप्रवर्तिका चेति कथं न प्रमाणम् । न च स्थायिता. ध्यवसायादुत्तरकालभाविनो नित्यताप्राहितयाऽऽधदर्शनमेव व्यवस्थाप्यत इति आद्यदर्शन- 20 गृहीतां नित्यतामध्यवस्यत् प्रत्यभिज्ञा नमपूर्वार्थाधिगन्तृत्वाभावाम्न प्रमाणमिति वाच्यम् , तथापि नित्यत्वस्याद्यदर्शनावसेयतया भावानां क्षणक्षयित्वासिद्धेः, अध्यक्षस्याप्रवृत्तौ चानुमानस्याप्यप्रवृत्तेः । किन स्वभावहेतुकमनुमानं क्षणिकत्वमवगमयतीति परस्याभ्युपगमः, न च तदध्यक्षेण गृहीतम् , येन स्वभावहेतुस्तत्र व्यवहारमुपरचयेत् , यथा विशददर्शनावभासिनि तरौ शिशपा वृक्षत्वव्यवहृतिमुपरचयति, प्रत्यक्षप्रतीत एवार्थे स्वभावहेतोर्व्यवहृतिप्र- 25 दर्शनफलत्वात् । न च विद्युदादौ सत्त्वक्षणिकत्वयोरध्यक्षत एव प्रतिबन्धग्रहणादन्यत्रापि शब्दादौ सत्तोपलभ्यमाना क्षणिकत्वमवगमयतीति वक्तव्यम् , स्वर्णादौ सत्त्वाच्छुकृताऽनुमितिप्रसङ्गात् । न च कनकाकारनिर्भासिदर्शनं बाधकं वाच्यम् , स्तम्भादावपि स एवाय. मित्यभेदप्रतिभासस्य क्षणिकतानुमानबाधकत्वात् । भिन्नेष्वभेदोल्लेखितया लूनपुनरुदितशिर "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy