________________
सम्मतितस्वसोपाने
[मष्टादशम् तां जनयति, उतोत्तरकालं किं वा समानकालम् , नाद्यः प्रागभावस्यैव प्रच्युतित्वप्रसङ्गात् , न प्रध्वंसाभावस्य । न द्वितीयः, भावोदयसमये तत्प्रच्युतेरनुत्पन्नतया भावहेतोस्तद्धेतुत्वासम्भवात्। नापि तृतीयः, भावोदयसमये प्रच्युतिसद्भावे तयोरविरोधात् द्वितीयादिक्षणेऽपि भावेन
न नंष्टव्यमिति कदाचिदपि भावस्याभावो न स्यात् । अपि च प्रच्युतेभीवोदयानन्तरभावि5 त्वेऽपि न तदैव तस्याः प्रतीतिर्मुद्ररादिव्यापारानन्तरमिव, किन्तु मुद्रादिव्यापारानन्तरमेव, तथा च पूर्वमनुपलब्धा मुद्गरव्यापारानन्तरमुपलभ्यमाना पुनस्तदभावेऽनुपलभ्यमाना सा त. जन्यैव भवेत् , अन्यत्रापि कार्यकारणभावस्यान्वयव्यतिरेकानुविधानलक्षणत्वात्। न च मुद्गर• व्यापारः कपालसन्ततेरुदय एव, तदा तस्या एवोपलब्धेः प्रच्युत्युपलम्भस्तु विषयाभावा. दुपजायमानो वितथ एवेति शङ्कयम् , तदा घटादेरविकारितया स्वरूपतोऽवस्थाने प्रागिवोप10 लब्ध्यादिप्रसङ्गात्। न हि स्वयमेव तस्याभावादनपलम्भ इति वक्तुं शक्यम् , तस्याऽपि मुद्गख्या
पारानन्तरमेवोपलम्भेन तत्कार्यत्वप्रसङ्गात् । ननु भावस्याभावो न भावस्वरूपादन्यः, किन्तु असन्नपि स केवलं कल्पनाविषयत्वाद्र्यवहारपथमवतार्यत इति तन्न, एवं सति हि भावानामपि काल्पनिकत्वं दुष्परिहरं भवेत् , नीलपीतयोहि विरोधः परैर्लाक्षणिकोऽभ्युपगतः, तत्र लक्षणं
यस्तुस्वरूपव्यवस्थापकम् , तन्निमित्तो विरोधः लाक्षणिक उच्यते, भावप्रच्युतिश्च लक्षणम् , 15 नीलप्रच्युत्या सह नीलस्य विरोधः, तद्विरोधे च तत्प्रच्युतिव्याप्तानां पीतादीनामपि नीलेन वि.
रोधः, तथा च नीलपरिच्छेदकत्वेन प्रवृत्तं प्रमाणं नीलप्रच्युति तद्व्याप्तांश्च पीतादीन व्यवच्छिन्ददेव स्वपरिच्छेद्यं नीलं परिच्छिनत्तीति पराभ्युपगमः, स च भावाभावस्य काल्पनिकत्वेऽ सङ्गन्तः स्यात् ,न हि शश विषाणप्रख्यस्य भावाभावस्य भावविरुद्धत्वं पीतादिव्यापकत्वं वा प्रमा
णाविषयत्वाद्यवस्थापयितुं शक्यम् , येन तस्य प्रतिनियतपदार्थव्यवस्थाहेतुत्वं भवेत् । अथ वि. 20 नाशस्य मुद्गरादिजन्यत्वमसिद्धम् , किन्तु घट एव विनाशकारणतया लोकप्रसिद्ध मुद्गरादिकमपे
क्ष्य समानक्षणान्तरोत्पादनेऽसमर्थः क्षणान्तरमसमर्थमुत्पादयति,तदप्यपरमसमर्थतरं तदपेक्ष्य, तदप्यपरमसमर्थतममिति यावद्भूट सन्ततेनिर्वृत्तिरित्युच्यते तदपि न युक्तम् , तथापि मुद्रादेरसमर्थक्षणान्तरजनकत्वेनाभ्युपगतस्य घटक्षणस्य कश्चित्सामर्थ्य विघातः स्वीकार्य एव, अन्य
थाऽसमर्थक्षणान्तरजनकत्वमेव न भवेत् , अभ्युपगते च सामर्थ्य विधाते कथमहेतुकोऽभावः । 25 न च तदपेक्षस्यापि घटक्षणस्य सामर्थ्यव्यावृत्तिः स्वत एव, न तु मुद्रा दिना तस्य सामर्थ्यवि.
घात इति वक्तव्यम् ,तथा सति प्रथमश्क्षण एवं सन्तत्युच्छेदप्रसङ्गात् ,मुद्रादिसन्निधानवैया. च । एवञ्च विलक्षणसन्तत्युत्पादे सन्तानोच्छेदे वा मुद्गरादेरन्वयव्यतिरेकाननुविधानप्रसक्तितो वह्नयादीनां दहनादिकार्ये लोकस्योपादानं न भवेत् । अथ किं घट एव प्रच्युतिः,उत कपाललक्षणं
१ काष्ठादिसन्ततेः कदाप्यनुच्छेदात् , वयादिना काष्टादेः किमप्यकरणात् , काछादेश्च हेतुपरम्परायातसमर्थक्षणान्तरजननस्वभावाव्याहते थेति भावः ।।
"Aho Shrutgyanam"