________________
सोपानम् ] निक्षेपचतुष्टयवर्णनम् ।
:१२९: धानानन्तरं पुरो व्यवस्थितस्य गवादेविशदतया स्थिरस्थूलरूपस्यैवानुभवात् , अन्यथाभूतार्थप्रतिभासस्य कदाचिदप्यनुपलब्धेः । न च वस्तुनः प्रतिक्षणध्वंसित्वात्तत्सामर्थ्यबलोद्भू. तेनाध्यक्षेण तद्रूपमेव ग्रहणीयम् , अन्यरूपग्रहणेऽसदर्थंग्राहकत्वेन भ्रान्तताप्रसक्तेः, तस्मात क्षणपरिणामग्राहकमध्यक्षमिति वक्तव्यम् , अन्योन्याश्रयात् , भावानां हि क्षणक्षयित्वे सिद्धे तत्सामर्थ्य भाविनोऽध्यक्षस्य तद्रूपानुकरणं सिद्ध्यति, तत्सिद्धौ च क्षणक्षयित्वमिति, ततो न 5 क्षणिकत्वं भावानामध्यक्षगम्यम् । नाप्यनुमानान्निश्चयम् , अध्यक्षाप्रवृत्तावनुमानस्याप्यनवतारात् । अध्यक्षाधिगतमविनाभावमाश्रित्य हि पक्षधर्मतावगमबलादनुमानमुदयमासादयति, अध्यक्षानवगते स्वर्गादाविवानुमानस्याप्रवृत्तिरेव । यच्च निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावी न देशकालपदार्थान्तरमपेक्षत इत्यभिप्रेतं तन्न युक्तम् , तस्य निर्हेतुकत्वेऽपि यदैव मुद्रव्यापारानन्तरमुपलब्धिगोचरस्तदैव तत्सद्भावाभ्युपगमात् , भावोदयानन्तरं च न कस्य- 10 चिदुपलम्भगोचरो ध्वंस इति कथं तदैवास्य सद्भावः । न हि मुद्रादिव्यापारानन्तरमस्य दर्शनात्ततः प्रागपि सद्भावः कल्पनीयः, प्रथमं तस्यादर्शनात् मुद्रव्यापारानन्तरमध्यभावप्रसङ्गात् , विशेषाभावात् , सन्तानेन व्यभिचारादन्ते क्षयदर्शनेऽप्यादौ तदभ्युपगमासम्भवाच । न च ध्वंसो मुद्रादिसंयोगादिकं नापेक्षते किन्तु पदार्थसत्तामात्रानुबन्धी, अतस्तदुदयानन्तरमेव सत्त्वमासादयतीति वाच्यम् , भावसत्तामात्रानुबन्धित्वेऽपि नाशस्य प्रतिक्षणध्वंसित्वा- 15 सिद्धेः,तथात्वेन सत्ताया एवानिश्चयात् ,न हि सत्ता एकक्षणस्थितिका सिद्धा येन तदनुबन्धिनः प्रध्वंसस्य प्रतिक्षणभावितानिश्चयः स्यात्, विशेषणाप्रतिपत्तौ तद्विशेष्यस्य प्रतिपत्तमशक्तः । अनेकक्षणस्यापि सत्तामात्रानुबन्धित्वे च ध्वंसस्याक्षणिकत्वमेव स्यात् , सत्ताया क्षणान्तरा. वस्थानात् । किञ्चोदयानन्तरमेव भावानां ध्वंसः कुतः प्रतीयते, किं भिन्नाभिन्न विकल्पाभ्यां ध्वंसस्यासम्भवात् , किं वाऽपरप्रमाणात् , नाद्यः, भिन्नाभिन्नविकल्पाभ्यां तस्य मुद्रादिनिर- 20 पेक्षताया एव सिद्धेः, न तु भावोदयानन्तरभावितायाः, न हि निर्हेतुकस्य शशविषाणादेः पदार्थोदयानन्तरभावितोपलब्धा । न च ध्वंसस्य निर्हेतुकत्वे सर्वदाभावस्यौचित्यात् कालाउपेक्षाऽसम्भवेन पदार्थोदयानन्तरमेव स भवतीति वाच्यम् , प्रथमक्षणेऽपि सद्भावप्रसक्तेः, तस्य निर्हेतुकत्वेन सर्वदा भावात् , सापेक्षत्वे च निहेतुकत्वविरोधात्, सापेक्षतायाः सहेतु- . कत्वव्याप्तत्वात् , न च प्रथमक्षण एव ध्वंसे पदार्थसत्तैवासम्भविनीति तत्प्रच्युतिलक्षणध्वं. 25 सोऽपि न भवेदिति स्वहेतुतोऽर्था ध्वंसस्वभावा भवन्तीति वाच्यम् , विकल्पानुपपत्तेः, तथाहि किमेकक्षणस्थायिभावहेतोस्तत्प्रच्युतिहेतुत्वं किं वाऽनेकक्षणस्थायिभावहेतोः, नाद्यः, असिद्धेः, न हि क्षणस्थायिभावहेतुत्वमद्यापि सिद्धम् , येन तत्कृतत्वं तत्प्रच्युतेः सिद्ध्येत् । न द्वितीयः, क्षणिकत्वाभावप्रसङ्गात्, अपि च भावहेतोरेव तत्प्रच्युतिहेतुत्वे तदा स किं भावजननात्पूर्व
"Aho Shrutgyanam"