________________
१२८ सम्मतितस्वसोपाने
[ अष्टादशम् सां स्थापना । सापि द्रव्यार्थिकस्य निक्षेपः, मुख्यप्रतिनिधिविभागांभावात् सदविशेषात् सर्वस्य मुख्यार्थक्रियाकरणात् , अन्यथोपयाचितादेस्ततोऽसिद्धिप्रसक्तेः, तन्निमित्तद्रव्यादि. विनियोगव्यवहाराभावप्रसक्तेश्च, मुख्यपदार्थरूपत्वात् स्थापनाया द्रव्यार्थत्वम् । अथ बाऽध्यवसायोपरचितमेव स्थापनायास्तदेकत्वम् , न तु वास्तवम् , अन्यथा मुख्यप्रतिनिधि5 विभागाभावग्रसक्तेस्त द्रुपोपलक्षकत्वाभावप्रसक्तेश्च । न ह्यभेदे उपलक्ष्योपलक्षकभाव उपपन्नः।
नापि भिन्न देशकालचेतनाचेतनादिविभागो न्यायानुगतो भवेदिति सद्भावासद्भावरूपतया प्रवर्त्तमानत्वात् द्रव्यधर्म सद्भावादेकत्वाध्यवसायकृतमेव तस्या द्रव्यार्थत्वमिति द्रव्यार्थिकनिक्षेपः स्थापना ।।
द्रवत्यतीतानागतपर्यायानधिकरणत्वेनाविचलितरूपं सद्गच्छतीति द्रव्यम् , तच्च भूत10 भाविपर्यायकारणत्वाचेतनमचेतनं वाऽनुपचरितमेव द्रव्यार्थिकनिक्षेपः । ननु भावानां निर
न्वयं प्रतिक्षणविशरारुतया नित्यत्वासम्भवेन द्रव्यार्थिकनिक्षेपो न सत्य इति चेन्न, निर. न्वयविनाशित्वे प्रमाणानवतारात् । क्षणिकवादिभिर्हि विनाशमाहितयाऽध्यक्षं वाऽनुमानं वा प्रमाणं उपन्यसनीयमपरप्रमाणानभ्युपगमात् , तत्र न तावद्भावानां क्षणक्षयित्वस्य
ग्राहकं प्रत्यक्षं भवितुमर्हति, प्रतिक्षणमुदयापवर्गितया भावानां तत्राप्रतिभासनात् , स्थिरस्थू. 15 लरूपतयैव भावानां तत्र प्रतिभासनात्, न ह्यन्याहग्भूतप्रतिभासोऽन्धादृग्भूतार्थव्यवस्था
पकोऽतिप्रसङ्गात् । न च सहशापरापरोत्पत्तिविप्रलम्भाद्यथानुभवं व्यवसायानुत्पत्तेः क्षणिकत्वानुभवेऽपि स्थिरस्थूलरूपाध्यवसाय इति वाच्यम् , प्रमाणाभावात् , न ह्यन्याशार्थानुभवेऽन्यादृशार्थनिश्चयोत्पत्तिकल्पना ज्यायसी, नीलानुभवेऽपि पीतनिश्चयकल्पनया सर्वत्र
प्रतिनियतार्थव्यवस्थितेरभावप्रसङ्गात् । न वा सहशापरापरोत्पत्तिविप्रलम्भसम्भवः, भाव20 भिन्नस्य सादृश्यस्य सामान्यपक्षोक्तदोषप्रसङ्गेनासम्भवात् । नाप्यसहशा अपि समानवि
कल्प जनका दर्शनद्वारेण सदृशव्यवहारहेतव इति वक्तव्यम् , नीलादिविशेषाणामप्यभावप्रसक्तेः, यथा हि परमार्थतोऽसदृशा अपि तथाभूत विकल्पोत्पादकदर्शनहेतवः सहाव्यवहारभाजो भावास्तथा स्वयमनीलादिस्वभावा अपि नीला दिविकल्पोत्पादकदर्शननिमित्ततया
नीलादिव्यवहारभाजो भवेयुरिति तेषामपि निःस्वभावताप्रसक्तिः । विकल्पवशेन हि अध्य. 25 क्षस्य प्रामाण्यव्यवस्था भवति, अन्यथा दानहिंसाविरतचेतसामपि स्वर्गप्रापणशक्तरधिग.
मस्याध्यक्षत एव व्यवस्थितेने तत्र विप्रतिपत्तिरिति तद्वयुदासार्थमनुमानप्रवर्तनं शास्त्रविर• चनं वा व्यर्थं भवेत् । विकल्पस्तु स्थिरस्थूलार्थाध्यवसायलक्षणः, न स क्षणिकताव्यवस्थापकः, विकल्पस्य चावस्तुविषयत्वं बाधितम् , तथात्वे तु अन्यथाभूतसंवेदनस्यानुपलक्षणादस्तुव्यवस्थाऽभावप्रसक्तः । संहृतसकलविकल्पावस्थायामश्वविकल्पनसमय एव चक्षुःप्रणि.
"Aho Shrutgyanam"