SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [विंशम् साधने उदाहरणमपि किश्चिदस्ति, अध्यक्षाधिगतमनेकान्तमन्तरेणान्तर्बहिश्च वस्तुसत्तानुपपत्तेः । न च निरन्वयविनाशमन्तरेण किश्चिद्वस्तु अनुपपद्यमानं संवेद्यते, यतो बहिः रूपसंस्थानाद्यात्मनाऽध्यक्षप्रतीतमनेकान्तमन्तर्विकल्पाविकल्पस्वरूपं संशयविपर्याससंवेदनात्मक वा स्वसंवेदनसिद्धमपहाय निरन्वयक्षणक्षयलक्षणं वस्तु प्रकल्प्येत । न चानुस्यूतिव्यतिरेकेण 5 ज्ञानानां कार्यकारणभावोऽपि युक्तिसङ्गतः, आस्तां स्मृतिप्रत्यभिज्ञावासनासन्तानादिव्यवहारः, न हि भेदाविशेषेऽपि कथश्चित्तादात्म्यमन्तरेण भेदानामयं नियमः सिद्धिमासादयति केषाश्चिदेव, अन्यथा ग्राह्यग्राहकाकारयोरपि तादात्म्याभावप्रसक्तिर्भवेत् , यतः शक्यमत्राप्येवं वक्तुं ग्राह्यग्राहकानुभवयोः स्वकारणवशाद्भिन्नस्वभावयोरेव प्रतिक्षणं विशिष्टयो रुत्पत्तिस्तेन तेन रूपेणेति । एवञ्च ' अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यमाह10 कसंवित्तिभेदवानिव लक्ष्यते' इत्ययुक्तमेवाभिधानं स्यात् । परेणापि चैवं वक्तुं शक्यत एवं 'परमात्माऽविभागोऽप्यविद्याविप्लुतमानसः। सुखदुःखादिभिर्भागैर्भेदवानिव लक्ष्यते ।। इति, न हि भेदाभेदेकान्तयोरागमोपलम्भं परमार्थादर्शनश्च प्रति कश्चिद्विशेषः संलक्ष्यते, कथञ्चित् परमार्थदर्शनाभ्युपगमे च उत्पन्नं कथञ्चित् पुनरुत्पादयेदित्यनेकान्तः स्यात् । स्वलक्षणस्य परमात्मनो वा परमार्थसतः सर्वथाऽनुपलम्भकान्ताभ्युपगमे परीक्षाक्षमस्य संवृत्तिरूपस्या15 विद्यास्वभावस्य वा दर्शनासम्भवादनेकान्तात्मकस्य सतः सर्वथा एकान्तव्युदासेन प्रमाणतो दर्शनमायातमिति कथं तत्प्रतिक्षेपः । न च संवृतेरेवोत्पादविनाशाभ्युपगमः, क्षणस्थितिव्यतिरेकेणापरस्य परमार्थसल्लक्षणलक्ष्यस्याभावात् क्षणस्थायिन एव स्खलक्षणताभ्युपगमात , क्षणव्यवस्थितयश्च ग्राह्यग्राहकसंवित्त्यादयोऽध्यक्षत्वेनेष्यन्ते तदस्खलक्षणत्वे कोऽपरः स्वलक्षणार्थो भवेत् , तदाकारविविक्तस्यापरस्यात्यन्तानुपलम्भतः प्रत्यक्षत्वानुपपत्तेः । न चानंशमसा20 धारणं स्वलक्षणं सांशमिव विपर्यासात् प्रतिभातीति वक्तव्यम् , अकार्यकारणरूपं कार्यकारणरू पमिव सर्वविकल्पातीतं सविकल्पकमिव पुरुषतत्त्वं प्रतिभातीत्येवं पराभिधानस्यापि सम्भवादित्युक्तत्वात् , ततश्च न कश्चिदुत्पादः क्षयो वा भवेत् । न चोत्पादविनाशयोभ्रान्तिकल्पनाया किञ्चिदप्यभ्रान्तं सिद्ध्येत् , निरंशक्षणक्षयाधवभासाभावात् , स्वसंवित्तिसद्भावमात्रसिद्ध रप्य भावप्रसङ्गात् । क्षणक्षयाद्यवभासस्यासत्यत्वे सैवानेकान्तसिद्धिः समापतति । अथ नेयमसती 25 संवित्तिः कुतश्चिनिमित्तान सतीव प्रतिभाति किन्तु सत्येव प्रतिभातीत्यस्याः स्वभावसिद्धिः, एवं सति न सर्वथापि भ्रमः सिद्ध्येत् किन्तु भ्रान्ताभ्रान्तकविज्ञानाभ्युपगमादनेकान्तवाद एव पुनरपि सिद्धिमायातः । यदपि कार्यकारणयोरभेदाभावः सिध्यति, भेदादकार्यकारणवदिति, तदपि ग्राह्यग्राहकसंवित्यादिभिरनैकान्तिकमित्युपेक्षामहै ति । न हि स्वभावभेदादभेदे प्रा १ सर्वेषां कथं न स्यात् ? ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy