________________
सोपानम् ] द्रध्यस्वरूपनिरूपणम् ।
.१४७. ह्यप्राहकसंवित्त्यादेः कालभेदाढेतुफलयोरभेदाभावो युक्तः,कालभेदादपि स्वरूपभेद एव भावानामवसेयः, स्वभावतोऽभिन्नस्य कालभेदादपि भेदायोगात् , स्वभावभेदश्चेन्न भेदकः कालभेदः कोपयोगीति न तद्भेदात् कार्यकारणथोरात्यन्तिकभेदसिद्धिः, एवश्वांशेन वृत्तिः कार्ये कारणस्योपपन्ना | न च प्रतिक्षणमंशवृत्तौ दृष्टान्ताभावः, संवित्तेायग्राहकाकारादेदृष्टान्तत्वेन सिद्धत्वात् ,अनंशवृत्तिस्तु न कचिदर्थस्य प्रमाणसिद्धा या दृष्टान्तत्वेन प्रदश्र्येत,सर्वस्य सांशवृत्ति. 5 तयोपलब्धेः,ततो नाध्यक्षसिद्धमनुगमस्वरूपं भावानां लक्षणं प्रतिक्षेप्तुं युक्तम् , तत्प्रतिक्षेपे प्रमाणान्तराभावात् । न हि सुखादिनीलादीनां निरन्वयानां कचित् संवेदनमध्यक्षमनुमानं वाऽनुभूयते, नापि तेषां भेदविकलानां कदाचिदप्यनुभूतिरिति यथा संविदाकारमन्तरेण ग्राह्यग्राहककारयोरसंवित्तेरनुपपत्तिस्तथा तावन्तरेण तस्या अप्यसंवित्तेरनुपपत्तिरिति भेदाभेदरूपं सर्व प्रमाणप्रमेयलक्षणमभ्युपगन्तव्यम् , न च पूर्वापराधोमध्योोदिभेदाभावेs. 10 नुगताकारलक्षणं सामान्यं तेष्वेकाकारप्रतिभासमाद्यं सम्भवति, अनुगतिविषयाभावे तदनुगतेकाकारस्याप्यभावात् , तदभावे च तदवृत्तेः सामान्यस्याभाव एव, न च तेष्व. वर्तमानमपि तत् सामान्यम् , व्यक्त्यन्तरस्वरूपवत् । किञ्च तदनुगतं रूपं व्यावृत्तरूपाभावे किं कार्यरूपं, उत कारणरूपम् , आहोस्विदुभयात्मकम् , उतानुभयस्वभावमिति विकल्पाः, आद्यविकल्पे तस्यानित्यत्वप्रसतिः द्वितीयेऽपि सैवेति न तत्सामान्यस्वभावम् । तृतीयपक्षे 15 उभयदोषप्रसक्तिः, तुर्यविकल्पेऽप्यभावप्रसङ्ग इति विशेषाभावे नानुगतिरूपसामान्यसम्भवः सम्भवेऽपि तत्प्रतिपादकं प्रमाणमभिधानीयम्, तच्चाक्षणिकत्वविरोधिकथञ्चित्क्षणिकत्वा वभासितयाऽनुभूयत इति विपर्ययसाधकं भवेत्, कथञ्चित् क्षणिकत्वावभासस्य भ्रान्तत्वे विपरीतावभासस्यापि भ्रान्तत्वप्रसक्तिः । तदवभासस्याभ्रान्तत्वे वा भ्रान्ताभ्रान्तरूपमेकं विज्ञानमेकान्तप्रतिक्षेप्यनेकान्तं साधयतीत्यलमतिप्रसङ्गेनेति स्थितमेतद् ध्रौव्यमुत्पादव्ययव्यति- 20 रेकेण न सम्भवति तौ च तदन्तरेणेति उत्पादस्थितिमा अपरित्यक्तात्मस्वरूपाः तदितर. स्वरूपत्वेन त्रैलक्षण्यं प्रत्येकमनुभवन्तो द्रव्यलक्षणतामुपयान्ति, अन्यथा पृथपक्षोक्तदोषप्रस. किर्दुर्निवारेति व्यवस्थितमुत्पादस्थितिभङ्गा द्रव्यलक्षणमिति ॥ १२ ॥ परस्परापेक्षा एते चोत्पादादयो द्रव्यलक्षणं न स्वतंत्रा इत्याह- . एए पुण संगहओ पाडिकमलक्खणं दुवेण्हं पि ।
25 तम्हा मिच्छद्दिट्टी पत्तेयं दो वि मूलणया ॥ १३ ॥ एते पुनः सङ्कहतः प्रत्येकमलक्षणं द्वयोरपि । तस्मान्मिच्यादृष्टी प्रत्येकं द्वावपि मूलनयौ ॥ छाया ॥
"Aho Shrutgyanam"