________________
:१४८: सम्मतितत्त्वसोपाने
[ एकविंशम् एत इति, एते उत्पादादयः सङ्घहतः शिबिकोद्वाहिपुरुषा इव परस्परस्वरूपोपादानेनैव लक्षणम् , प्रत्येक-एकका उत्पादादयो द्वयोरपि द्रव्यास्तिकपर्यायास्तिकयोरलक्षणम् , तथाभूवविषयाभावे तद्राहकयोरपि तथाभूतयोरभावात् , उत्पादादीनाश्च परस्परविविक्तरूपाणामसम्भवात् । तस्मान्मिथ्यादृष्टी एव प्रत्येकं परस्परविविक्तौ द्वावपि एतौ द्रव्यार्थिकप5 र्यायार्थिकस्वरूपौ मूलनयौ समस्तनयराशिकारणभूतौ ।। १३ ॥
इति तपोगच्छ नभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजय. लब्धिसूरिणा सङ्कलितस्य सम्मतितस्वसोपानस्य द्रव्यस्व
रूपनिरूपणं नाम विंशतितम सोपानम् ।।
10
15
नयसम्यक्त्वनिरूपणम् । ननु स्यान्मिध्यात्वं परस्परनिरपेक्षयोरेतयोः, उभयनयारब्धस्त्वेकः सम्यग्दृष्टिवि. ध्यतीत्यत्राह
ण य तइओ अस्थि णओ ण य सम्मत्तं ण तेसु पडिपुषणं । जेण दुवे एगन्ता विभजमाणा अणेगन्तो ।। १४ ॥ 'न च तृतीयोऽस्ति नयो न च सम्यक्त्वं न तेषु परिपूर्णम् ।
येन द्वौ एकान्तौ विभज्यमानौ अनेकान्तः ॥ छाया ॥ न चेति, परस्परसापेक्षोभयग्राही न च तृतीयो नयः कश्चिदस्ति, तथाभूतस्यानेका. न्तात्मकत्वात्तद्राहिणः प्रत्ययस्य नयात्मकत्वानुपपत्तेः, सम्यक्त्वं तयोः परिपूर्ण न चेति न, 20 किन्तु परिपूर्णमेव, नअद्वयस्य प्रकृतार्थगमकत्वात् । अशेषं हि प्रामाण्यम् , सापेक्षं गृह्यमा.
णयोरनयोरेवंविषययोर्व्यवस्थितं येन द्वावपि एकान्तरूपतया व्यवस्थितो मिथ्यात्वनिबन्धनम् , तत्परित्यागेनान्वयव्यतिरेको विशेषेण-परस्परात्यागरूपेण भज्यमानौ-गृह्यमाणावनेकान्तो भवतीति सम्यक्त्वहेतुत्वमेतयोरिति ॥ १४ ॥
सापेक्षद्वयमाहिणो नयत्वानुपपत्तेः तृतीयनयाभावं प्रदर्य निरपेक्षमाहिणां मिध्या25 त्वं दर्शयति
१ अन्योऽन्यापेक्षसामान्यविशेषोभयग्राही नास्ति कश्चिन्नय: सामान्यस्य द्रव्यार्थिन विशेषस्य च पर्यायार्थिकेन प्रणात , उभयग्राहिण थैकस्य न नयत्वमपि तु प्रमाणत्वमेव तयोरेव सम्यक्त्वस्य परिपूर्णत्वात् , नयौ हि यदि प्रत्येक निरपेक्षौ तदा तु मिथ्यारूपौ भवतः एकान्तग्राहित्वातू, परस्परसापेक्षतया प्रवृत्तामुभावपि अनेकान्ततां भजत एवेति भावः ।
"Aho Shrutgyanam"