SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मोपानम् ] नयसम्यक्त्वनिरूपणम् । जह एए तह अण्णे पत्तेयं दुण्णया णया सव्वे । हंदि हु मूलणयाणं पण्णवणे वावडा ते वि ।। १५ ॥ 'यथा पतौ तथा अन्ये प्रत्येक दर्नया नयाः सर्वे । द्वन्दि हु मूलनयानां प्रज्ञापने व्वापृतास्तेऽपि ॥ छाया ॥ यथेति, यथैतौ निरपेक्षद्वयग्राहिणौ मूलनयो मिथ्यादृष्टी तथा प्रत्येक-इतरानपेक्षा 5 अन्येऽपि दुर्नयाः, उभयवादरूपेण व्यवस्थितानामपि परस्परनिरपेक्षत्वस्य मिथ्यात्वनिबन्धनस्य तुल्यत्वात् । न च प्रकृतनयद्वयव्यतिरिक्तनयान्तरारब्धत्वादुभयवादस्य नयानामपि वैचित्र्यादन्यत्रारोपयितुमशक्यत्वात्तद्रूपस्यान्ये सम्यक्प्रत्यया भविष्यन्तीति वक्तव्यम् , हुरिति हेतौ यतो मूलनयानां प्रज्ञापने,-मूलनयद्वय परिच्छिन्नवस्तुन्येव तेऽपि नया व्यापृता हंदि इत्येवं गृह्यताम् , तद्विषयव्यतिरिक्तविषयान्तराभावात् । सर्वनयवादानाञ्च सामा- 10 न्यविशेषोभयैकान्तविषयत्वात् । तस्मान्न नयान्तरसद्भावः, यतस्तदारधोभयवादे नयान्तरं भवेत् ॥ १५ ॥ ननु तद्व्यतिरिक्ताः सङ्ग्रहादयो नयाः सन्त्येवेति न शङ्कयम् , मूलनयद्वयविषयव्यतिरिक्तविषयान्तराभावात् । तेऽपि तद्विषया एवातस्तषणेनैव दूषिताः, न हि मूलच्छेदे तच्छाखास्तदवस्था एव सम्भवन्तीत्याह 15 सवणयसमूहम्मि वि णत्थि णओ उभयवायपण्णवओ। मूलणयाण उ आणं पत्तेयं विसेसियं चिंति ॥ १६ ॥ सर्वनयसमूहेऽपि नास्ति नय उभयवादप्रज्ञापकः । मूलनयानान्त्वाज्ञां प्रत्येकं विशेषितं ब्रवीति ।। छाया । सर्वनयेति, सङ्ग्रहादिसकलनय समूहेऽपि उभयवादप्ररूपकः कश्चिन्नयो नास्ति, यतो 20 मूलनयाभ्यामेव यत्प्रतिज्ञातं वस्तु तदेवाऽऽश्रित्य प्रत्येकरूपाः सङ्ग्रहादयः। पूर्वपूर्वनयाधि. गतांशविशिष्टमंशान्तरमधिगच्छन्तीति न विषयान्तरमोचराः, अतो व्यवस्थितं परस्परात्याग. प्रवृत्तसामान्यविशेषविषयसङ्ग्रहाद्यात्मकन्यद्वयाधिगम्यात्मकत्वाद्वस्त्वप्युभयात्मकम् ।। १६ ।। बाह्यघटादिवस्त्वेव तथाविधप्रमाणग्राह्यत्वादुभयात्मकमिति न मन्तव्यम् , किन्तु आन्तरमपि हर्षशोकभयकरुणौदासीन्याद्यनेकाकारविवर्त्तात्मकैकचेतनास्वरूपं तदात्मकर्षाद्य- 25 १ भवन्तु वा केचित्रयाः मूलद्वयभिन्न। उभयवादप्रवर्तकास्तथापि ते नयद्वयवन्मिथ्यारूपा एव । न च वक्तव्यं ते नयाः प्रकृतनयद्वयव्यतिरिक्ताः प्रकृतनयदयस्य मिथ्यात्वेऽपि कथं तथा भवेयः तेषां वैचित्र्यादिति, मूलनयद्यविषयव्यतिरिक्तविषयान्तराभावेन सर्वेषामेव नयानां सामान्यविशेषोभयकान्तविषयत्वादिति ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy