________________
: १५० : सम्मतितस्वसोपाने
[ एकविंशम् नेकविकाररूपानेकात्मकञ्च स्वसंवेदनाध्यक्षप्रतीतम् । तस्य भेदाभेदैकान्तकरूपताभ्युपगमे दृष्टादृष्टविषयसुखदुःखसाधनस्वीकारत्यागार्थप्रवृत्तिनिवृत्तिस्वरूपसकलव्यवहारोच्छेद प्रसक्किरिति प्रतिपादयितुमाह
ण य दवट्ठियपक्खे संसारो णेव पजवणयस्स । सासयवियत्तिवायी जम्हा उच्छेअवाई आ॥ १७ ॥ न च द्रव्यार्थिकपक्ष संसारो नैव पर्यवनयस्य ।।
शाश्वतव्यक्तिवादी यस्मादुच्छेदवादी च ॥ छाया ॥ न चेति, द्रव्याथिकपर्यायास्तिकनयद्वयाभिमते वस्तुनि न संसारः सम्भवति, शाश्वतव्यक्तिप्रतिक्षणान्यत्वैकान्तात्मकचैतन्य ग्राहकविषयीकृतत्वात् पावकज्ञानविषयीकृते उदक10 वत् । तथाहि संसारः संसृतिस्वभावः, स चैकान्तनित्यस्य पूर्वावस्थापरित्यागविरहे न
सम्भवति, तत्परित्यागेनैव भवभावान्तरप्राप्तेः सम्भवात् । नापि निरन्वयविनाशे, भवभावान्तरापत्तेः कथञ्चिदन्वयिरूपमन्तरेणायोगात् । पूर्वापरशरीराभ्यां वियोगसंयोगलक्षणसंसारोऽपि नाविकारिणि सम्भवति, नित्यस्य शरीरवियोगसंयोगानुपपत्तेः । निरन्वयोच्छे
देऽप्येकाधिकरणत्वासम्भवान्न तल्लक्षणः संसारः। न वाऽमूर्तस्यात्मनोऽसर्वगतैकमनोभिष्वक्त15 शरीरेण विशिष्टवियोगसंयोगी संसारः, मनसोऽकर्त्तत्वेन शरीरसम्बन्धस्यानुपपत्तेः, योऽह्यदृष्टस्य विधाता स तन्निर्वर्तितशरीरेण सह सम्बद्ध्यते न चैवं मनः, न च मनसः शरीरसम्बन्धेऽपि तत्कृत सुखदुःखोपभोक्तत्वम्, आत्मनि तस्याभ्युपगमात् , तदर्थश्च शरीरसम्बन्धोऽभ्युपगम्यत इति तत्सम्बन्धपरिकल्पनं मनसो व्यर्थम् , मनसि च सुखदुःखोपभोक्त
स्वाभ्युपगमे वाऽऽत्मकल्पनावैयर्यम् , मनस आत्मत्वसिद्धेः ॥ १७ ॥ 20 पुनरपि सुखदुःखादेरनुपपत्तिमाह
सुहदुक्खसम्पओगो ण जुज्जए णिचवायपक्खम्मि । एगंतुच्छेयम्मि य सुहदुक्खवियप्पणमजुत्तं ॥ १८ ॥ सुखदुःखसम्प्रयोगो न युज्यते नित्यवादपक्ष ।
एकान्तोच्छेदे च सुखदुःखविकल्पनमयुक्तम् ॥ छाया ।। 25 सुखेति, नित्यात्मवादपक्षे अबाधालक्षणसुखेन बाधनास्वरूपदुःखेन च सम्प्रयोगः
सम्बन्धो न युज्यते-न घटते, द्रव्यास्तिकाभ्युपगमे सुखस्वभावैकान्ते तत्स्वभावस्याविचलितरूपतया सदा तत्स्वभावापत्त्या न भवेदुःखसम्प्रयोगः, दुःखस्वभावत्वे वा तथा सदावस्था. नात्सुखयोगो न स्यात् । एकान्तोच्छेदपक्षे च पर्यायास्तिकनये सुखदुःखसम्प्रयोगः क्षणिक
"Aho Shrutgyanam".