________________
सोपानम् 1
मयसम्यक्त्वनिरूपणम् । तया न स्यादेकात्मनि । तथा च पक्षद्वयेऽपि सुखार्थ दुःखवियोगार्थश्च यद्विशिष्टं प्रयतनं तदयुक्तमेव प्रोक्तन्यायादिति ॥ १८ ॥
अथ एकान्तपक्षे सुखदुःखोपभोगाश्रयशरीरसम्बन्धनिदानादृष्टजनकनिमित्तानामप्यसम्भवमाह
कम्म जोगनिमित्तं वज्झइ बन्धट्टिई कसायवसा। अपरिणउच्छिण्णेसु य बंधद्विकारणं णत्थि ॥१९॥ कर्म योगनिमित्तं बध्यते बन्धस्थिती कषायवशात् ।
अपरिणतोच्छिन्नेषु च बन्धस्थितिकारणं नास्ति ॥ छाया । कर्मेति, कर्म-अदृष्टं मनोवाक्कायव्यापारलक्षणयोगनिमित्तं बध्यते-आदीयते, बन्धस्यादृष्टस्य स्थितिः-कालान्तरफलदातृत्वेनात्मन्यवस्थानं कषायवशात् , क्रोधादिसामर्थ्यात् । 10 एतदुभयमपि एकान्तवाद्यभ्युपगते आत्मचैतन्यलक्षणे भावे अपरिणते निरन्वयविनष्टे च बन्धस्थितिकारणं नास्ति, न ह्यपरिणामिनि अत्यन्तानाधेयातिशये आत्मनि क्रोधादयः सम्भवन्ति, नाप्येकान्तोत्सन्ने अनुसन्धानविकले अहमनेनाक्रुष्ट इति द्वेषसम्भवः, तथा. चान्य आक्रुष्टः, अन्यो रुष्टः, अन्यो व्यापृतः, अपरो बद्धः, अपरश्व मुक्त इति कुशलाकुशलकर्मगोचरप्रवृत्त्यारम्भवैफल्यानुपपत्तिरिति ।। १९ ।। किञ्चैकान्तवादिनां संसारनिवृत्तितत्सुखमुक्तिप्राप्त्यर्थप्रवृत्तिश्चासङ्गतेत्याह
बंधम्मि अपूरन्ते संसारभओघदसणं मोज्झं। बंधं व विणा मोक्खसुहपत्थणा णत्थि मोक्खो य ।। २० ॥ वन्धे अपूर्यमाणे संसारभयोघदर्शनं मौज्यम् ।।
यन्धं च विना मोक्षसुखप्रार्थना नास्ति मोक्षश्च ॥ छाया । बन्ध इति, असति बन्धे जन्ममरणादिप्रबन्धलक्षणे संसारे तत्कारणे वा मिथ्यात्वादौ भयोघो-भीतिप्राचुर्य तस्य दर्शनं-सर्व चतुर्गतिपर्यटनं दुःखात्मकमिति पर्यालोचनं मौढ्यं-- मूढता, अनुपपद्यमानसंसारदुःखौघविषयत्वान्मिथ्याज्ञानम् , बन्ध्यासुतजनितबाधागोचरभीतिविषयपर्यालोचनवत् , मिथ्याज्ञानपूर्विका च प्रवृत्तिर्विसंवादिन्येव, बन्धेन विना संसारनिवृत्तिस्तत्सुखप्रार्थना च न भवत्येव, तथा मोक्षश्चानुपपन्नः, निरपराधपुरुषवत् , अबद्धस्य 25 मोक्षासम्भवात् , बन्धाभावश्च योगकषाययोः प्रकृतिस्थित्यनुभागप्रदेशात्मकबन्धहेत्वोरेकान्तपक्षे विरुद्धत्वादिति ॥ २० ॥
15
20
"Aho Shrutgyanam"