SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ : १५२ : सम्मतितस्वसोपाने [ एकविंशम् तदेवमेकान्ताभ्युपगमे बन्धहेत्वाद्यनुपपत्तेः सर्वव्यवहारविलोप इत्येकान्तव्यवस्थापका निखिला नया मिथ्यादृष्टयः, यदा च त एव परस्परसापेक्षाः तदा सभ्यस्त्वं भजन्त इत्युपसंहरति तम्हा सब्वे वि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोषणणिस्सिआ उण हवंति सम्मत्तसम्भावा ।। २१ ।। तस्मात्सर्वेऽपि नया मिथ्यादृष्टयः स्वपक्षप्रतिबद्धाः । अन्योन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वसद्भावाः ।। छाया ॥ तस्मादिति, यस्मादेकान्तनित्यानित्यवस्त्वभ्युपगमो बन्धादिबाधितः, बन्धाद्यभ्युप. गमश्च एकान्तनित्याद्यभ्युपगमबाधितः तस्मात्सर्वेऽपि नयाः स्वकीयाभ्युपगमप्रतिहत्तत्वा. 10 मिथ्यादृष्टयः, एषां च ज्ञानानां मिथ्यात्वे तद्विषयस्य तदभिधानस्य च मिथ्यात्वमेव, तस्मात्सर्वनयवादा मिथ्याभूताः स्वपक्षेणैव प्रतिहतत्वात् चौरवाक्यवदिति प्रयोगः, अन्योऽ. न्यनिश्रिताः परस्पर सापेक्षव्यवस्थिताः पुनस्त एवं सम्यक्त्वस्य-यथावस्थितवस्तुप्रत्ययस्य सद्भावा भवन्ति इति न बन्धाद्यनुपपत्तिः । ननु नयाः प्रत्येकं किं सन्तः, किं वाऽसन्तः, आधे कथं तत्र न सम्यक्त्वम् , नयस्वरूपव्यतिरेकेणापरस्य सम्यक्त्वस्याभावात् तस्य च 15 तेवभ्युपगमात्। यदि न सन्तस्त_सतां समुदायानुपपत्त्या कथं तत्समुदायः सम्यक्त्वनिमित्तं स्थात् , मैवम् , प्रत्येकमपि ह्यपेक्षितेतरांशस्वविषयप्राहकतयैव सन्तो नयाः तद्व्यतिरिक्त रूपतयात्वसन्त इति सतां तत्समुदाये सम्यक्त्वे न कश्चिद्विरोधः । तेषां समुदायोऽपि नेकदाऽनेकज्ञानोत्पादरूपः किन्तु अपरित्यक्तेतररूपविषयाध्यवसाय एव ॥ २१ ।। अत्र विषये निदर्शनमाह जहऽणेयलक्खणगुणा वेरुलियाईमणी विसंजुत्ता । रयणावलिववएसं न लहंति महग्धमुल्ला वि ॥२२ ।। तह णिययवायसुविणिच्छिया वि अण्णोण्णपक्वणिरवेक्खा। सम्मइंसणसई सव्वे वि णया ण पावेंति ॥ २३ ॥ 25 जह पुण ते चेव मणी जहा गुणविसेसभागपडिबद्धा। रयणावलि त्ति भण्णइ जहंति पाडिकसण्णाउ. ॥२४ ।। तह सव्वे णयवाया जहाणुरूवविणि उत्तवत्तव्वा । सम्मइंसणसई लहंति ण विसेससण्णाओ ॥२५॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy