________________
सोपानम् ।
नयसम्यक्यनिरूपणम् । यथाऽनेकलक्षणगुणा वैडूर्यादयो मणयो विसंयुक्ताः । रत्नावलीव्यपदेशं न लभन्ते महाधमूल्या अपि । तथा निजकवादसुविनिश्चिता अप्यन्योन्यपक्षनिरपेक्षाः । सम्यग्दर्शनशब्दं सर्वेऽपि नया न प्राप्नुवन्ति ॥ यथा पुनस्ते चैव मणयो यथा गुणविशेषभागप्रतिबद्धाः । रत्नावलीति भण्यते त्यजन्ति प्रत्येकसंज्ञास्तु ॥ तथा सर्वे नयवादा यथानुरूपविनियुक्तवक्तव्याः ।
सम्यग्दर्शनशब्दं लभन्ते न विशेष संशाः ॥ छाया ।। यथेति, यथाऽनेके नानाविधा लक्षणगुणा येषान्ते वैडूर्यादयो मणयः पृथग्भूता महार्घमूल्या अपि रत्नावलीव्यपदेशं न लभन्ते, अत्र लक्षणानि विषविघातहेतुत्वादीनि, गुणा 10 नीलस्वादयो बोध्याः, तथा नया अपि सर्वे इतरनिरपेक्षसामान्यादिवादे स्वकीये स्वविषयपरिच्छेदकत्वेन सुनिश्चिता अपि अन्योऽन्यपक्षनिरपेक्षत्वात् सुनया इत्येवंरूपं सम्यग्दर्शनशब्दं न प्राप्नुवन्ति, इतरांशसव्यपेक्षा अपि ते प्रत्येक वस्त्वंशमाहितया न वा प्रमाणमित्या. ख्यां प्राप्नुवन्ति । यदा तु त एव मणयो यथायोग्यं गुणविशेषपरिपाट्या प्रतिबद्धाः सन्तो रत्नावलीति व्यपदेशमासादयन्ति रत्नानुविद्धतया रत्नावल्यास्तदनुविद्धतया च रस्नानां 15 प्रतीतेः प्रत्येकाभिधानानि त्यजन्ति तथा सर्वे नयवादा यथानुरूपद्रव्यध्रौव्यादिषु प्रमाणात्मकत्वेन व्यवस्थिताः सम्यग्दर्शनशब्दं प्रमाणमित्याख्यां लभन्ते न विशेषसंज्ञाः पृथग्भूताभिधानानि न लभन्ते, एकानेकात्मकत्वेन चैतन्यप्रतिपत्तेः, अन्यथाऽप्रतिपत्तश्चेति ॥२२-२५॥ किम्प्रयोजनं दृष्टान्तोपन्यासस्येत्याशङ्कायामाह
लोइयपरिच्छयसुहो निच्छयवयणसुपडिवत्तिमग्गो य । अह पण्णवणाविसउ त्ति तेण वीसत्थमुवणीओ ॥ २६ ॥ लौकिकपरीक्षकसुखो निश्चयवचनप्रतिपत्तिमार्गश्च ।
अथ प्रज्ञापनाविषय इति तेन विश्वासार्थमुपनीतः ॥ छाया ॥ लौकिकेति, दृष्टान्ते हि लौकिकानां परीक्षकाणाञ्च बुद्धेः साम्यं वर्ततेऽतो निश्चीयमानोऽ र्थः सुखग्राह्यः, तत एव स निश्चितविषयप्रतीतिजनकः, अनन्तधर्मात्मकवस्तुप्रज्ञापनाविषयो 25 दृष्टान्त इति तेन शङ्काव्यवच्छेदार्थमयमुपदर्शितः । न चावल्यवस्थायाः प्राक् पश्चाञ्च रत्नानामस्ति पृथगुपलम्भः, इह च सर्वदा तथोपलम्भाभावात् विषममुदाहरणमिति वाच्यम् ,
20
२०
"Aho Shrutgyanam"