SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने ( অকর্ষিতা आवल्यवस्थाया एव दृष्टान्ततयोपन्यासात्, न हि दृष्टान्तदान्तिकयोः सर्वथा साम्यमावश्यकम् , अन्यथा दृष्टान्तत्वस्यैवानुपपत्तेः सर्वथा साम्यस्य कुत्रचिदप्यभावात् ॥ २६ ॥ दृष्टान्तस्य साध्यसमतां वदतां सांख्यादीनां मतानि निरसितुमाहइहरा समूहसिद्धो परिणामकओ व्व जो जहिं अस्थो। ते तं च ण तं तं चेव व त्ति नियमेण मिच्छत्तं ॥ २७ ॥ इतरथा समूहसिद्धः परिणामकृतो वा यो यत्रार्थः । ते तञ्च न तत् तदेव वेति नियमेन मिथ्यात्वम् ॥ छाया । इतरथेति, उक्तप्रकारादन्यथा रत्नानां समूहे सिद्धो-निष्पन्नः परिणामकृतो वा मण्यादिष्वावल्यादिः क्षीरादिषु दध्यादिवा इति मतम् , यो यत्रार्थस्त एव मण्यादयः क्षीरं वा 10 तत् कार्य आवल्यादिरूपं दध्यादिरूपं वा, तत्र तत्सद्भावात् , तस्य तत्परिणामरूपत्वादि त्यपरं मतम् , उभयमपि सांख्य विशेषाणाम् । किश्चित् कार्य समूहकृतं किञ्चिच्च परिणामकृतमिति लौकिकव्यवहारापेक्षया पृथगुपादानम् , वस्तुतस्तु सर्वेषामेव परमाणुसमूहपरिणामात्मकत्वादयं समूहकृतोऽयं परिणामकृत इति भेदो नास्ति । न तदित्यपरः पक्षः कारणेषु कार्यमसत् , ततो भिन्न मिति . बौद्धवैशेषिकादयः । तदेव वा, न च कार्य कारणं 15 वाऽस्ति द्रव्यमात्रमेव तत्त्वमिति वेदान्तिनः, एते मतवादा नियमेन मिथ्याभूताः, कथञ्चि दित्यभ्युपगमे तु सम्यग्वादाः, उत्पादव्ययध्रौव्यात्मना वस्तुनः स्थितेः, तत्तदपेक्षया च कार्यमकार्यञ्च, कारणमकारणञ्च, कारणे कार्य सञ्चासच्च, कारण कार्यकाले विनाशवदविनाशवच, तथैव प्रतीतेः अन्यथा चाप्रतीतेः ॥ तत्र सत्कार्यवादाभ्युपगमो मिथ्या, कारणे हि यद्येकान्तेन कार्य भवेत् तदा कारणस्व20 रूपवत् कार्यस्वरूपमपि नोत्पद्येत, अन्यथा सत एवोत्पादे उत्पत्त्यविरतिप्रसक्तिः । न वा कारणव्यापारसार्थकता, तद्व्यापारसम्पाद्यस्य कस्यचिद्रूपस्याभावात् , कार्यस्य पूर्वमेव भावात् , अन्यथाऽसत्कार्यवादप्रसङ्गात् । अभिव्यक्तिस्वीकारेऽपि तदेव दूषणम् , आवरणविनाशेऽपि न कारणव्यापारो विद्यमानस्य विनाशासम्भवात् , असतो भावस्योत्पादवत् । यथाऽन्ध. कारपिहितघटानुपलम्भेऽन्धकारोपलम्भः तथा न कस्यचित् कार्यावारकस्योपलम्भः न हि 25 कारणमेव कार्यावारकम् , तस्य तदुपकारकतया प्रसिद्धेः, न चालोकादि रूपज्ञानोपकारक तदाऽऽवारकत्वेन वक्तुं शक्यम् । यदि चाऽऽवारकं मूस न तदा कारणरूपस्य कार्यस्य तदन्तः प्रवेशः मूर्तस्य मूर्तेन प्रतिघातात् , अप्रतिघाते कार्य यथा कारणेनावृतं तथा कारणमपि कार्येणावृतमिति नोपलभ्येत, अप्रतिघातेन तदनुप्रविष्टत्वाविशेषात् । तद्दर्शनप्रतिवन्ध. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy