SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] नयसम्यक्त्वनिरूपणम् । : १५५ : I " कत्वेनान्धकारस्येव तस्यावारकत्वे चाक्षुषोपलम्भाभावेऽपि स्पार्शनः स्यात्, तस्याप्यभावे तु आवारकं तत्स्वरूपविनाशकमेव भवेत् । नापि घटादिकं प्रति पटादेरिव कारणं कार्याss वारकम् पदध्वंस इव मृत्पिण्डध्वंस एव तदावृत कार्योपलब्धिप्रसङ्गात्, एकाभिव्यञ्जकव्यापारादेव एकप्रदीपव्यापारात्सन्निहित निखिलवस्तूपलम्भ इव सर्वव्यङ्गयोपलम्भो भवेत् । तथा कारणसमये यदि कार्यं सत्तर्हि कारणेन तत्कथं स्वकाले इव कार्यकालेनाब्रियते कथं 5 तत्कार्यं मृत्पिण्डादिकारणकार्यतया व्यपदिश्येत, यदि कार्यं न सत्तर्ह्यसत्त्वादेव नावृत्तिः ॥ कारणात्मक परिणामवादोऽपि प्रतिक्षिप्त एव, न ह्यर्थान्तपरिणामाभावे परिणाम्येव कारणलक्षणोऽर्थः पूर्वापरयोरेकत्वविरोधात् । न च परिणामाभावे परिणामिनोऽपि भावो युक्तः, परिणामित्वस्य परिणामनिबन्धनत्वात् । अभिन्नस्य हि पूर्वापरावस्थाहानोपादानात्मकतया एकस्य वृत्तिलक्षणः परिणामो न युक्तियुक्तः । तन्नैकान्ताभेदे कारणमेवानर्थान्तरकार्यरूपतया 10 परिणमत इति स्थितम् ॥ मृत्पिण्डावस्थायां घटाद्यर्थ क्रियाव्यपदेशाभावादसदुत्पद्यते कार्यमित्ययमप्येकान्तो मिथ्यावाद एव, कार्योत्पत्तिकाले कारणस्याविचलितरूपस्य कार्यादव्यतिरिक्तस्य सवे पूर्वोक्तदोषप्रसङ्गात् तद्व्यतिरिक्तस्य च तस्य सद्भावे कारणस्य प्राक्तन स्वरूपेणैवावस्थानात् कार्योत्पत्तिरकारणा भवेत्, कारणस्य प्रानस्वरूपा परित्यागात् परित्यागे वा कार्यकरणस्वरूपस्वीकारेण तस्यैवावस्थितत्वादनेकान्तसिद्धिः । व्यतिरेके च कारणांतू 15 कार्यस्य पृथगुपलम्भप्रसङ्गः । न च तदाश्रितत्वेन तस्योत्पत्तेर्न तत्प्रसङ्ग इति वक्तव्यम्, अत्रयविनः समवायस्य च निषेत्स्यमानत्वात् निषिद्धत्वाच्च || कारणनिवृत्या ततो भिन्नं तत्रासदेव कार्यमित्यपि पक्षो मिथ्यैव, कारणनिवृत्तिर्हि यदि सद्रूपा तदा सा न कारणस्वरूपा वक्तुं शक्या, नित्यत्वप्रसङ्गात्, निवृत्तिकालेऽपि कारणसद्भावात्, अविचलितरूपेण मृत्पिण्डसद्भावे घटोत्पत्तेरदर्शनेन कार्यानुत्पत्तिप्रसङ्गव । तन्निवृत्तेः कार्यरूपत्वे 20 कारणानिवृत्ती कार्यस्यैवानुत्पत्तेः एवञ्च कार्यानुत्पादकत्वेन कारणस्यासत्त्वमेव । न च कार्योत्पत्तिरेव कारणनिवृत्तिः, कार्यगतोत्पत्तेः कारणगत निवृत्तिस्वरूपत्वासम्भवात् भिन्नाधिकरणत्वात्, कार्यरूपत्वे च परिणामवादः स्यात् कारणस्य कार्यरूपेण परिणतत्वात् ततश्च घटस्य मृत्स्वरूपवत् कपालेष्वप्युपलब्धिप्रसङ्गः । नाप्युभयरूपा तन्निवृत्तिः तन्निवृत्तिकाले युगपत् कारणकार्ययोरुपलम्भप्रसङ्गात् । न वानुभयस्वरूपा, मृत्पिण्डविनाशकाले विवक्षित- 25 मृत्पिण्डघटव्यतिरिक्ताशेषजगदुत्पत्तिप्रसक्तेः । अथ कारणनिवृत्तिरसद्रूपा तर्हि सा यदि कारणाभावस्वरूपा तदाऽकारणा कार्योत्पत्तिर्भवेत्, कारणाभावादुत्पन्नत्वात् तथा च कार्यस्य प्रतिनियत देशकालादिनियमो न स्यात् । यदि कार्याभावरूपा न तदा कार्योत्पत्तिः स्यात् । नाप्युभयाभावस्वभावा उभयोरप्यनुपलब्धिप्रसङ्गात्, न वाऽनुभयाभावरूपा, विव "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy