SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ एकविंशम् क्षितकारणकार्यव्यतिरेकेण सर्वस्यानुपलब्धिप्रसक्तेः, नापि च कारणभावाभावरूपा, कारणस्यानुगतव्यावृत्तताप्रसक्तेः, अत एव च सदसद्रूपं खपररूपापेक्षया वस्त्वनेकान्तवादिभिरभ्युपगम्यते, पररूपेणेव स्वरूपेणाप्यसत्त्वे वस्तुनो निःस्वभावताप्रसक्तेः, स्वरूपवत्पररूपेणापि सत्त्वे पररूपताप्रसक्तः, एकरूपापेक्षयैव सदसत्त्वविरोधात्, अन्यथा वस्त्वेव 5 न भवेत् । एवं कार्यभावाभावरूपापि न निवृत्तिः, कार्यस्योत्पत्त्यनुत्पत्त्युभयप्रसङ्गेनाने. कान्तवादग्रसक्तेः । नापि कारणकार्यभावाभावरूपा प्रत्येकपक्षोदितसकलदोषप्रसङ्गात् । नाप्यनुभयभावाभावरूपा, अनुभयरूपस्य वस्तुनोऽभावात् । किञ्च कारणनिवृत्तिर्यदि कारण. स्वरूपादभिन्ना तर्हि निवृत्तिकालेऽपि कारणस्योपलम्भप्रसङ्गः । भिन्ना चेत्सम्बन्धाभावात् कारणस्य निवृत्तिरिति न स्यात् । सङ्केतवशादभिधानप्रवृत्तावपि आधेयनिवृत्तिकालेऽधि10 करणस्य किं सत्वमसत्त्वं वा, सत्वे कारणविनाशानुपपत्तिः, आधेयनिवृत्त्या कारणस्व. रूपाधारस्याविरोधात्, विरोधे वा कारणतन्निवृत्त्योयोगपद्यासम्भवात् , असत्त्वेऽप्यधिकरणत्वविरोधः असतोऽधिकरणत्वायोगात्, तस्य वस्तुधर्मत्वात् , न च कारणं निवृत्ते - धिकरणं किन्तु तद्धेतुरिति वाच्यम्, निवृत्तेरुत्तरकार्यवत्तत्कार्यत्वप्रसङ्गात् तत्कार्यत्वान भ्युपगमे तु कथं तस्य निवृत्तिहेतुत्वम् 1 न वा कारणाहेतुका कारणनिवृत्तिः तस्या 15 नियमेन तदुत्तरकालभावित्वविरोधात् । नापि कारणहेतुका, कारणसमानकाले तदुत्पत्ति प्रसङ्गात् प्रथमक्षण एव कारणस्यानुपलब्धिप्रसक्तेः, उपलम्भे वा न कदाचित् कारणस्यानुपलब्धिर्भवेत् तन्निवृत्त्याऽविरुद्धत्वात् । न च कारणनिवृत्तिः स्वहेतुका, स्वात्मनि क्रियाविरोधात् । न च निर्हेतुकैव, कारणानन्तरमेव तस्या भावविरोधात् , अहेतोः कालादि नियमाभावात् । ननु निवृत्ति प्रति कारणं न हेतुर्न वाऽधिकरणं किन्तु कारणं स्वयमेव न 20 भवतीति चेम्कि स्वयमभवनं स्वसत्तासमये पश्चाद्वा, आये प्रथमक्षण एव निवृत्त्याऽऽक्रा. न्तत्वात् कारणं नोत्पद्येत तथा सति कस्य विनाशः। न द्वितीयः, तदा निवृत्तिभवने उत्पमानुत्पन्नतया कारणरूपाभवनयोस्तादात्म्यविरोधात् , यदि हि स्वसत्ताकाले एव न भवेत् तदा भवनाभवनयोरविरोधात् स्वयमेव भावो न भवतीति वचो घटेत नान्यथा । न च जन्मानन्तरं भावाभावस्य भावात्मकत्वात्तव्यतिरिक्त एवाभाव इति वाच्यम् , जन्मान 23 स्तरं स एव न भवतीत्यनेनाभावस्य भावरूपतवोक्तेत्युत्तरकालमपि कारणानिवृत्तेस्तथैवोप लब्ध्यादिप्रसङ्गात् । भावस्याभावात्मकत्वान्नायं दोष इति चेदत्रापि भावस्य पर्युदासाभावात्मकत्वं प्रसज्यरूपाभावात्मकत्वं वा, प्रथमपक्षेऽपि स्वरूपपरिहारेण तदात्मकतां प्रति. पद्यते अपरिहारेण वा, नाद्यः, स्वभवनप्रतिषेधपर्यवसानान्न भावस्य पर्युदासाभावात्मकता स्यात, न चासौ तथा, तद्राहकप्रमाणाभावात् , तथाभूतभावनाहकप्रमाणाभ्युपगमे च १ पर्युदासात्मकोऽभावः स्वरूपपरिहाररूपतया न सिद्ध इत्यर्थः । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy