SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] नयसम्यक्त्वनिरूपणम् । प्रसज्यपर्युदासात्मको भावो भवेदित्यनेकान्तप्रसिद्धिः । द्वितीयपक्षेऽपि न पर्युदासः, अनिषिद्धतत्स्वरूपत्वात् पूर्वभावस्वरूपवत् । प्रसज्यरूपाभावात्मकत्वेऽपि भावस्य प्रतिषिद्ध्यमानस्याश्रयो वक्तव्यः, न हि मृत्पिण्डरूपं कारणमाश्रयः, तस्य प्रतिषिद्ध्यमानत्वात् , निषि. यमानस्य चाश्रयत्वानुपपत्तेः । नापि घटलक्षणं कार्यमाश्रयः, कारण निवृत्तेहि प्राग् घटस्यासत्त्वेन अयमिति प्रत्ययाविषयत्वात , अयम्प्रत्ययविषयत्वे च अयं ब्राह्मणो न भवति । ब्राह्मणादन्योऽयमिति च प्रसज्यपर्युदासव्यवहारो दृष्टो नान्यथेति प्रतिषेधप्रधानविध्युपसर्जनविधिप्रधानप्रतिषेधोपसर्जनयोः शब्दयोः प्रवृत्तिनिमित्तधर्मद्वयाधारभूतं द्रव्यं विषयत्वेनाभ्युपगन्तव्यमन्यथा तदयोगात् , तथा चानेकान्तवादापत्तिरयत्नसिद्धेति तथा. भूतस्य तस्य वस्तुनः प्रमाणबलायातस्य निषेद्धुमशक्यत्वान् । एकान्तेन घटस्योत्पत्तेः प्रागस्तित्वे क्रियायाः प्रवृत्त्यभावः फलसद्भावात् , तत्सद्भावेऽपि प्रवृत्तावनवस्थाप्रसक्तेः । 10 कारणेऽप्येतदविशेषतस्तद्वत्प्रसङ्गे द्वयोरप्यभावप्रसङ्गः, न चैतदस्ति तथाऽप्रतीतेः, तन्न मृत्पिण्डे घटस्य सत्त्वम् । नाप्येकान्ततोऽसत्त्वम् , मृत्पिण्डस्यैव कथश्चिद्बटरूपतया परिणतेः, सर्वात्मना पिण्डनिवृत्तौ पूर्वोक्तदोषानतिवृत्तेः घटसदसत्वयोराधारभूतमेकं द्रव्यं मृल्लक्षणमेकाकारतया मृत्पिण्डघटयोः प्रतीयमानमभ्युपगन्तव्यम् । न च कारणप्रवृत्तिकाले कारणगता मृदूपता तन्निवृत्तिकाले च कार्यगता सा परैव, नोभयत्र मृद्रूपताया 15 एकत्वमिति वक्तव्यम् , भेदप्रतिपत्तावपि मृत्पिण्डघटरूपतया कथंचिदेकत्वस्याबाधितप्रत्ययगोचरत्वात् , उपलभ्यत एव हि कुम्भकारव्यापारसव्यपेक्षं मृद्रव्यं पिण्डाकारपरित्यागेन शिबकाद्याकारतया परिणममानम् , न हि तत्रेदं कार्यमाधेयभूतं भिन्नमुपजातं पङ्के पङ्कजवदिति प्रतिपत्तिः नापि तत्करणनिर्वर्त्यतया, दण्डोत्पादितघटादिवत् । नापि तत्कतृतया, कुलालजन्यघटवत् , नापि तदुपादानतया, वृक्षजन्यफलवत् , तस्मात्पूर्वपर्यायविनाश 0 उत्तरपर्यायोत्पादात्मकः, तद्देशकालत्वात् , उत्पादात्मवत् , अभावरूपत्वाद्वा प्रदेशस्वरूपघटाद्यभाववत् , प्रागभावाभावरूपत्वाद्वा घटस्वात्मवत , एवमनभ्युपगमे पूर्वपर्यायध्वंसादुत्तरस्य चानुत्पत्तेः शून्यताप्रसक्तिरिति । उत्तरपर्यायोत्पादाभ्युपगमे वा तदुत्पादः पूर्वपर्यायप्रध्वं सात्मकः, प्रागभावाभावरूपत्वात् प्रध्वंसाभाववत्। न च प्राक्तनपर्यायविनाशात्मकत्वे उत्तरपर्यायभव नस्य, तद्विनाशे पूर्वपर्यायोन्मजनप्रसक्तिः, वस्तुनोऽभावाभावमानत्वानभ्युपगमा- 5 त्तस्य प्रतिनियतपरिणतिरूपत्वात् , भावाभावोभयरूपतया प्रतिनियतस्य वस्तुनः प्रादुर्भावे । मुद्गरादिव्यापारानन्तरमुपलभ्यमानस्य कपालादेरभावस्य नाहेतुकता। न चोभयस्यैकव्यापारा. १ कारणेऽपि सत्त्वाविशेषात् कार्यवत्क्रियायाः प्रसंगे कारण कार्ययोग्यभावप्रसंगः, जलाहरणादि क्रियाया अदर्शनतस्तदा तत्र कार्यस्याभावो वाच्यः तदभावे च कारणस्याप्यभावः कार्यवत एव कारण स्यांगीकारात् ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy