________________
सम्मतितस्वसोपाने
[ एकविंशम्
दुत्पत्तिविरोधः, तथाप्रतीयमाने विरोधासिद्धेः, ततस्तद्विपरीत एव विरोधसिद्धेरुभयैकान्ते प्रमाणानवतारात् । तथात्मकैकत्वेन प्रतीयमानं प्रति हेतोर्जनकविरोधे घटक्षणसत्तायाः स्वपरविनाशोत्पादकत्वं विरुद्ध्येत एवञ्चाकारणा घटक्षणान्तरोत्पत्तिर्भवेत् । न च विनाशस्य प्रसज्यपर्युदासपक्षद्वयेऽपि व्यतिरिक्ताव्यतिरिक्ता दिविकल्पतो हेत्वयोगान्निर्हेतुकता युक्ता, 5 सत्ता हेतुत्वेऽपि तथा विकल्पनस्य समानत्वेन प्राक् प्रदर्शितत्वात् तस्मान्नैकान्ततः कारषु कार्यमसदिति युक्तम् । तदेव वेति पक्षोऽप्ययुक्तः, स ह्यद्वैतवादिनाम्, तन्मते कार्यकारणभावस्य काल्पनिकत्वात् मतमिदमपि मिथ्यैव, स्वकार्यकारणोभयशून्यत्वात्, खरविषाणवत्, अद्वैतमात्रस्य गगनकुसुमसदृशत्वात्, अद्वैते प्रमाणाङ्गीकारे हि द्वैतापत्तिः, अनङ्गीकारे तदसिद्धिश्व | अद्वैतस्य प्रसज्यप्रतिषेधरूपतायां प्रतिषेधमात्रे पर्यवसितत्वेना10 द्वैतासिद्धिः, पर्युदासपक्षेऽपि द्वैतप्रसङ्गः, द्वैताद्वैतस्य व्यतिरेकात्, न हि द्वैताद्विना अद्वैतं सम्भवति हेतुना विनाऽहेतुरिव । न वाऽविद्यमानाद् द्वैताद्व्यावृत्ततासम्भवः, अविद्यमानस्यापि विद्यमानाद्व्यावृत्तिप्रसक्तेः, अन्यथा सद्रूपताया अविशेषप्रसक्तिः । तस्मादेते वादाः कारणे परिणामिनि वा कार्य परिणामो वा सदेव, तत् कारणेऽसदेव, न कारणमेव कार्यं परिणामी वा, परिणामस्तत्रैव किन्तु तौ पृथग्भूतावेव, न कार्यं नापि कारणं परन्तु द्रव्यमात्रं तत्त्व15 मिति तदेव वेति नियमेनैकान्ताभ्युपगमे मिथ्याभूता एव ॥ २७ ॥
: १५८ :
तस्मादेकान्तरूपस्य वस्तुनोऽभावेनान्यनयविषयपरिहारेण निजविषये प्रवर्त्तमाना अपि नयाः स्वविषयपरिच्छेदनसमर्था अपि मिथ्यारूपा एवेत्युपसंहरति
20
णिययवणिज्जसच्चा सत्र्वनया परवियालणे मोहा ।
ते उण ण दिसमओ विभयइ सच्चे व अलिए वा ।। २८ ।।
निजकवचनीयसत्याः सर्वनयाः परविचालने मोहाः ।
तान् पुनर्न दृष्टसमयो विभजते सत्यान् वाऽलीकान् वा ॥ छाया ॥ निजकेति, सर्वे सङ्ग्रहादयो नया निजपरिच्छेद्यविषये सम्यग्ज्ञानरूपा अपि परनयपरिच्छेद्यविषयोन्मूलने प्रवृत्ता मिथ्याप्रत्यया भवन्ति, स्वविषयस्येव परनयविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, अन्यथा स्वविषयोऽपि न स्यात्, तथा च सति निर्विषयत्वेन 25 प्रत्ययो मिथ्याभूतो भवेत्, तद्भिन्नस्य तद्ब्राहकप्रमाणस्याभावात्, अतस्तानेव नयान् दृष्टसमयः विज्ञाताने कान्तात्मक वस्तुतत्त्वः सत्येतरतया स्वेतरविषयमवधार्यमाणोऽपि स्वेतरविषयतया तान्न विभजते, अपि तु इतरनयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयति, ग्राह्यसत्यासत्याभ्यां ग्राहकसत्यासत्ये इत्येवमभिधानम्, तच्च दृष्टानेकान्ततत्त्वस्य विभजनं स्यादस्त्येव द्रव्यार्थत इत्येवंरूपम् ॥ २८ ॥
"Aho Shrutgyanam"