________________
घोपाम 1
नयसम्यक्त्वनिरूपणम् । ___अतो नयप्रमाणात्मकैकरूपताव्यवस्थितमात्मस्वरूपमनुगतव्यावृत्तात्मकम् , उत्सर्गापवादरूपग्राह्यग्राहकात्मत्कवाव्यवतिष्ठत इत्यर्थप्रदर्शनायाह
दव्ववियवत्तव्वं सव्वं सव्वेण णिचमवियप्पं । आरद्धो य विभागो पज्जववत्तव्वमग्गो य ।। २९ ।। द्रव्यार्थिकवक्तव्यं सर्व सर्वेण नित्यमविकल्पम् ।
आरब्धश्च विभागः पर्यववक्तव्यमार्गश्च ॥ छाया ।। द्रव्याथिकेति, सङ्ग्रहादेव्यार्थिकस्य यत्किञ्चित्सदादिरूपेण व्यवस्थितं वस्तु परिच्छेद्य तत्सर्वं सर्वेण प्रकारेण सर्वकालमविकल्पं निर्भेदम् , प्रमाणविषयस्य च सर्वस्य सदसद्विशेषात्मकत्वात् , द्रव्यार्थिकपरिच्छेद्यं वस्तु च भेदेन सम्पृक्तम् , तथा हि च स एवाविभागः, यो द्रव्यादिनाऽऽकारेण सत्तारूपः, पर्यायवक्तव्यमार्गश्च पर्यायास्तिकस्य यद्वक्तव्यं विशेषस्तस्य 10 मार्गो जातः, पर्यायार्थिकपरिच्छेद्यस्वभावो विशेषः सम्पन्न इति यावत् ॥ २९ ॥
एवं भेदाभेदरूपं वस्तूपदर्य पर्यायार्थिक विषयस्य भेदस्य द्वैविध्यमाहसो उण समासओ चिय वंजणणिअओ य अस्थणिअओ य । अत्थगओ य अभिण्णो भइयत्वो वंजणवियप्पो ॥ ३० ॥
स पुनः समासत एव व्यंजननियतश्चार्थनियतश्च ।
अर्थगतश्चाभिन्नो भाज्यो व्यञ्जनविकल्पः ॥ छाया ॥ स इति, स विभागस्तु व्यञ्जननयनिवन्धनोऽर्थनयनिबन्धनश्चेति द्विविधः, अर्थगतस्तु विभागोऽभिन्नः, सङ्ग्रहव्यवहारर्जुसूत्रार्थप्रधाननय विषयोऽर्थपर्यायोऽभिन्नः, असदद्रव्यातीतानागसव्यवच्छिन्नाभिन्नार्थपर्यायरूपत्वात्तद्विषया नया अपि अर्थगतो विभागोऽभिन्न इत्युच्यन्ते । भाज्यो व्यञ्जनविकल्प इति, विकल्पितः शब्दपर्यायो भिन्नोऽभिन्नश्च, अनेकाभि. 20 धान एकः, एकाभिधानश्चैक इति कृत्वा, समानलिङ्गसंख्याकालादिरनेकशब्दो घटः कुटः कुम्भ इत्यादिक एकार्थ इति शब्दनयः, समभिरूढस्तु भिन्नाभिधेयौ घटकुटशब्दो भिन्नप्रवृत्तिनिमित्तत्वात् रूपरसादिशब्दवदित्येकार्थ एकशब्द इति मन्यते, एवम्भूतस्तु चेष्टा समय एव घटो घटशब्दवाच्योऽन्यथाऽतिप्रसङ्गात् । तदेवमभिन्नोऽर्थो वाच्योऽस्येत्यभिन्नार्थो घटशब्द इति मन्यते ॥ ३० ॥
25 तदन्यतो विभक्तेन स्वरूपेणैकमनेकञ्च यद्वस्तूक्तं तदनन्तप्रमाणमित्याख्यातुमाह--
एगदवियम्मि जे अत्यपजवा वयणपज्जवा वावि । तीयाणागयभूया तावइयं तं हवइ दव्वं ॥ ३१ ॥
15
"Aho Shrutgyanam"