SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सम्मतितरवसोपामे [ एकविंशम् एकद्रव्ये येऽर्थपर्यवा वचनपर्यवा वापि । अतीतानागतभूता तावत्कं तद्भवति द्रव्यम् ॥ छाया ॥ एकेति, एकस्मिन् जीवादिद्रव्येऽर्थपर्यायाः, अर्थग्राहकाः सङ्ग्रहव्यवहारर्जुसूत्राख्याः तबाह्या वा अर्थास्तथा वचनपर्यायाः शब्दनयाः शब्दसमभिरूद्वैवम्भूतास्तत्परिच्छेद्या वा 5 वस्त्वंशास्ते अतीतानागतवर्तमानरूपतया सर्वदा विवर्तन्ते विवृत्ता विवर्तिष्यन्त इति तेषामानन्त्याद्वस्त्वपि तावत्प्रमाणं भवति, तथाहि अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानुगमेनाऽऽसादितत्वादयस्थातुश्वावस्थानां कथचिदनन्यत्वाद्धटादिवस्तु पटपुरुषादिरूपेणापि कथचिद्विवृत्तमिति सर्व सर्वात्मकं कथश्चिदिति स्थितम् , दृश्यते चैकं पुद्गलद्रव्यमती तानागतवर्तमानद्रव्यगुणकर्मसामान्यविशेषपरिणामात्मक युगपत् क्रमेणापि तत्तथाभूतमेव, 10 एकान्तासत उत्पादायोगात् सतश्च निरन्वयविनाशासम्भवादिति ॥ ३१ ॥ वस्तूनां यथानेकान्तात्मकत्वं तथा तत्प्रतिपादकवाक्यनयानामपि तथाविधमेव स्वरूप. मिति, अर्थव्यञ्जनपर्यायैः शक्तिव्यक्तिरूपैरनन्तैरनुगतोऽर्थः सविकल्पो निर्विकल्पश्च प्रत्यक्षतोऽवगतः, सम्प्रति पुरुषदृष्टान्तद्वारेण व्यञ्जनपर्यायं तदविकल्पकत्वनिबन्धनमर्थपर्यायच. तत्सविकल्पकत्वनिमित्तमिति च दर्शयितुमाह---- पुरिसम्मि पुरिससद्दो जम्माई मरणकालपज्ज़तो। तस्स उ बालाईआ पजवजोया बहुवियप्पा ॥ ३२ ॥ पुरुषे पुरुषशब्दो जन्मादिमरणकालपर्यन्तः । तस्य तु बालादयः पर्यवयोगा बहुविकल्पाः ॥ छाया ॥ पुरुष इति, अतीतानागतवर्तमानानन्तार्थव्यञ्जनपर्यायात्मके पुरुषवस्तुनि पुरुष इति 20 शब्दस्य वाच्योऽर्थः जन्मादिर्मरणपर्यन्तः अभिन्न इत्यर्थः पुरुष इत्यभिन्नाभिधानप्रत्यय. व्यवहारप्रवृत्तेः, तस्यैव पुरुषवस्तुनो बालादयः पर्याययोगा: परिणतिसम्बन्धा. बहुविकल्पाः अनेकभेदाः प्रतिक्षणसूक्ष्मपरिणामान्तर्भूता भवन्ति, तत्रैव तथाव्यतिरेकज्ञानोत्पत्तेः, एवञ्च स्यादेकः इत्यविकल्पः, स्यादनेक इति सविकल्पः सिद्धः, अन्यथाभ्युपगमे तदभाव एवेति विपक्षे बाधामग्रिमगाथया दर्शयिष्यति, इति प्रथमावतरणिकानुसार्यर्थः। अपरावतरणि25 कापक्षे पुरुषवस्तुनि पुरुषवनिर्व्यञ्जनपर्यायः, शेषो बालादिधर्मकलापोऽर्थपर्याय इति समुदायार्थः ॥ अत्र कोऽयं पुरुषशब्दः, कथं वा शब्दोऽर्थस्य पर्यायः, ततोऽत्यन्तभिन्नत्वात्, घटस्येव पट इति, तत्र वैयाकरणाः वर्णेभ्यो भिन्नः अर्थबोधहेतुः स्फोटाख्यः शब्दो ज्ञायते, श्रावण 15 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy