________________
सोपानम् }
नयसम्यक्त्वनिरूपणम् । विज्ञाने वर्णातिरिक्तस्य स्फोटस्य निग्वयवस्याक्रमस्य म्फुटं प्रतिभासनात् । श्रवणव्यापारानन्तरं हि अभिन्नार्थावभासा संविदनुभूयते, न चासौ वर्णविषया, वर्णानां परस्परं व्यावृत्तरूपत्वादेकावभासजनकत्वविरोधात् , तदजनकस्य चातिप्रसङ्गेन तद्विषयकत्वानुपपत्तेः । न चेयं सामान्यविषया, वर्णत्वान्यापरसामान्यस्य गकारौकारविसर्जनीयेध्वसम्भवात् , वर्णत्वस्य च प्रतिनियतार्थबोधकत्वायोगात् , गकारौकारविसर्गास्तु न ककुदादिमदर्थप्रत्यायकतया शब्दव्य. 5 पदेशभाजः, न हि ते व्यस्ता अर्थप्रत्यायकाः, वर्णेनैकेनैव गवाद्यर्थप्रतीत्युत्पादेऽपरवर्णोच्चारणवैयर्यप्रसङ्गात्, समुदायश्च तेषां न सम्भवति, क्रमोत्पादात् क्षणिकत्वाच्च, भिन्नपुरुषापेक्षया युगपदुत्पन्नानां समुदायादर्थप्रतिपत्तेरदर्शनात्, प्रतिनियतक्रमवर्णप्रतिपत्त्युत्तरकालं हि शाब्दी प्रतिपत्तिः संवेद्यते । अथ पूर्ववर्णानुगृहीतोऽन्त्यो वर्णः क्रमोत्पन्नः स्वार्थ बोधयतीति चेन्न, पूर्ववर्णानामन्त्यवर्णं प्रत्यनुप्राहत्वायोगात् , न हि पूर्वः पूर्वो वर्ण उत्तरोत्तरवणं प्रति जनको 10 येनान्त्यवर्ण प्रति पूर्वेषामुपकारित्वं भवेत् , वर्णाद्वर्णान्तरोत्पत्तेरभावात् , प्रतिनियतस्थानकरणादित एव तदुत्पत्तेः, वर्णाभावेऽपि वर्णोत्पत्तेर्दर्शनाच्च । न चार्थज्ञानोत्पत्तौ पूर्ववर्णानां सह. कारित्वमेवान्त्यवर्ण प्रत्युपकारित्वमिति वाच्यम् , अन्त्यवर्णकाले तेषामभावेन सहकारित्वायोगात् । अत एव न प्राक्तनवर्णज्ञानानामपि सहकारित्वम् । नापि पूर्ववर्णज्ञानजसंस्काराः सहकारिणः, संस्काराणां स्वजनकविज्ञानविषयकस्मृतावेव हेतुत्वात् । न वा तत्स्मृतयः सह. 15 कारिण्यः, तासां युगपदनुत्पत्तेः क्रमोत्पन्नानाञ्चावस्थानासम्भवात् , ततोऽवश्यं वर्णव्यतिरिकोऽर्थप्रत्यायकः स्फोटाख्यः शब्दोऽभ्युपेयः, स च नित्यो व्यापकश्च सर्वत्रैकरूपतया प्रतिपत्तेरिति वदन्ति । वैशेषिकास्तु पूर्वपूर्ववर्णध्वंसविशिष्टोऽन्त्यो वर्णोऽर्थबोधकः, न चाभावस्य सहकारित्वं विरुद्धम् , वृन्तफलसंयोगाभावस्याप्रतिबद्ध गुरुत्वफलप्रपातक्रियाजनने, पर. माणौ पूर्वरूपप्रध्वंससहकृतोऽग्निसंयोगस्य च रक्तोत्पादे सहकारदर्शनात् । अथवा पूर्ववर्ण. 20 विज्ञानसम्भूतसंस्कारापेक्षोऽन्त्यो वर्णः पदार्थप्रतिपत्ति जनयति, न च संस्कारो विषयान्तरविज्ञानजनकः कथमिति शङ्कथम् , तद्भावभावितयाऽर्थबोधोपलब्धेः, पूर्ववर्णविज्ञानजन्यसंस्कारश्चान्त्यवर्णसहायतामित्थं प्रतिपद्यते, आदौ हि वर्णे श्रुते तत्संस्कारस्ततो द्वितीयवर्णश्रतिः ततः पूर्वसंस्कारसहितो विशिष्टः संस्कारः, ततस्तृतीयवर्णविज्ञानं ततः पूर्वसंस्कारविशिष्टो विशिष्टतरः संस्कारः, इत्येवं यावदन्तिमो वर्णो विशिष्टसंस्कारसहायः, अथवा तथाविध- 25 संस्कारप्रभवस्मृत्यपेक्षोऽन्त्यो वर्णः पदरूपोऽर्थबोधहेतुरिति । तदेवं यथोक्तसहकारिकारणापेक्षादन्त्याद्वर्णादर्थप्रतिपत्तिरन्वयव्यतिरेकाभ्यामुपजायमानतया निश्चीयमाना स्फोटकल्पनां दूरीकरोति, स्फोटव्यतिरेकेणाप्यर्थप्रतिपत्तेरुक्तरूपेण सम्भवेनान्यथानुपपत्तेरभावात् , दृष्ट
२१
"Aho Shrutgyanam"