________________
: १६२ :
सम्मतितस्त्र सोपाने
[ एकत्रिंशम्
कारणादेव कार्योत्पत्तौ न ह्यष्टकारणपरिकल्पना ज्यायसी, अतिप्रसङ्गात् । किञ्च स्फोटाभिव्यक्तावपि न वर्णानां सामर्थ्य मस्ति, समस्ता हि ते न स्फोटमभिव्यञ्जयन्ति सामस्त्यासम्भवात् नाप्येकैकशः, अन्यवर्णवैयर्थ्यप्रसङ्गात् एकेनैव तदभिव्यक्तिजननात् । न च पूर्ववणैः स्फोटस्य संस्कारेऽन्त्यो वर्णस्तस्याभिव्यञ्जक इति न वर्णानां वैयर्थ्यमिति वाच्यम्, 5 अभिव्यक्तयतिरिक्त संस्कारस्वरूपानवधारणात्, वेगस्थितिस्थापकलक्षणौ हि संस्कारौ मूर्तभाविनौ नामूर्ते स्फोटे सम्भवतः, वासनालक्षणोऽपि नाचेतने स्फोटे, तस्य चैतन्यस्वीकारे तु स्वसिद्धान्त व्याघातः, न वा संस्कारः स्फोटस्वरूपः, वर्णैस्तस्य जन्यत्वापत्तेः, नांपि ततो भिन्नस्तद्धर्मरूपः, सम्बन्धानुपपत्तेः तत्कृतोपकाराभावात्, अव्यतिरिक्तोपकाराभ्युपगमे स्फोटस्य तज्जन्यताप्रसक्तिः, व्यतिरिक्तोपकारस्वीकारे तु तस्यानभिव्यक्तस्वरूपस्य सद्भावेन 10 न पूर्ववदर्थप्रतिपत्तिहेतुत्वम्, तत्स्वरूपत्यागे चानित्यताप्रसङ्गः । न च संस्कारसहायोऽसाविचलितस्वरूप एवार्थप्रतिपत्तिं जनयति, एककार्यकारित्वस्यैव सहकारित्वरूपत्वात्, न त्वतिशयोत्पादकस्य सहकारित्वमिति वाच्यम्, तथा सत्यन्यकृतोपकारनिरपेक्षाणां वर्णानामेककार्यनिर्वर्त्तनलक्षणसहकारित्ववत् सहकारिसहितानामर्थप्रतिपत्तिसम्भवेन स्फोटकल्पनानथैंक्यात् । किञ्च स्फोटस्य संस्कारः, किं स्फोटविज्ञानजननं किं वा तदावरणदूरीकरणम्, न 15 प्रथमः वर्णानामर्थं प्रतिपतिजनन इव स्फोटप्रतिपत्तिजननेऽपि सामर्थ्याभावात्, न्यायस्य समानत्वात् । न द्वितीयः, एकत्रैकदा तदावरणापाये सर्वदेशस्थैः सर्वदा व्यापिनित्यरूपतथा स उपलभ्येत, अपगतावरणस्य तस्य नित्यत्वव्यापित्वाभ्यां सर्वत्र सर्वदोपलभ्यस्वभावत्वात्, अनुपलभ्यस्वभावत्वे वा न केनचित् कदाचित् कुत्रचिदुपलभ्येत । यदि त्वेकदेशेनावरणापगमः स्वीक्रियते तर्ह्यवृतानावृतत्वेन सावयवताप्रसङ्गः । अपि च एकदेशास्ते 20 यदि स्फोटादर्थान्तरभूताः शब्दस्वरूपाश्च तदा तेषां गोशब्दस्वभावत्वे गोशब्दानेकत्वप्रसङ्गः, अगोशब्दस्वभावत्वे तु गवार्थप्रत्यायकत्वं न स्यात् । यदि ते स्फोटात्मकास्तर्हि स्फोट एव संस्कृत इति सर्वदेशावस्थितानां व्यापिनस्तस्य प्रतिपत्तिप्रसक्तिः । एवं वायूनामपि स्फोटव्यञ्जकत्वं निरस्तम्, वायूनां व्यञ्जकत्वे वर्णवैयर्थ्यप्रसङ्गः स्फोटाभिव्यक्तौ अर्थप्रतिपादने वा तेषामनुपयोगात् । तथा स्फोटस्य वर्णोच्चारणात् प्राकू सद्भावे वर्णानां 25 वायूनां वा व्यञ्जकत्वं स्यात् न च तत्सद्भावः कुतश्चित् प्रमाणादवगत इति न तत्परि
7
१ एकपदघटकैकवर्णाभिव्यक्तस्फोटप्रत्तिपन्नार्थादन्यपदाभिव्यक्तस्फोटप्रतिपन्नार्थव्यवच्छेदार्थं वर्णान्तरोच्चारणमिति चेन्न तदुच्चारणेऽपि तत्प्रतिपत्तेरेवानुषङ्गात्, गौरिति पदस्यार्थो हि गकारोचारणाद्यथा प्रतीयते तथौकारोच्चारणादौशनस इति पदार्थोऽपि तथा च गौरितिपदादेव गौः औशनस इति पदद्वयं प्रतीयेत, तथा किमेकपदस्फोटाभिव्यक्तये गायनेकवर्णा चारणमपरपदस्फोटव्यवच्छेदेन, किंवाऽनेकपदस्फोटाभिव्यक्तय इति संशयो वा स्यादित्यपि बोध्यम् ॥
"Aho Shrutgyanam"