________________
सोपानम् ]
नयसम्यक्त्वनिरूपणम् ।
: १६३ :
कल्पना युक्ता । न च प्रत्यभिज्ञाज्ञानं स्फोटस्य नित्यत्वप्रसाधकं वर्णोच्चारणात् प्रागप्यस्तित्वमवबोधयतीति वाच्यम्, तस्य सादृश्यनिबन्धनत्वेनात्र विषयेऽप्रवृत्तेः, एकगोorest सङ्केतितागोशब्दाद्गोव्यक्तयन्तरेऽन्यत्रान्यदा च नित्यत्वमन्तरेणापि प्रतिपत्तिसम्भवात् । न वाऽध्यक्षं स्फोटमवभासयति, घटादिशब्देषु परस्परव्यावृत्ताने कवर्णव्यतिरिक्तस्य स्फोटात्मनोऽर्थप्रत्यायकस्यैकस्याध्यक्ष प्रतिपत्तिविषयत्वेनाप्रतिभासनादिति वदन्ति । 5 अथ गकाराद्यानुपूर्वीविशिष्टोऽन्त्यो वर्गों विशिष्टानुपूर्वीका वा गकारौकारविसर्जनीयाः शब्दः, तथा चोक्तम् ' यावन्तो यादृशा ये च यदर्थप्रतिपादकाः । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥ [ श्लो० वा० स्फोटवा० श्लो० ६९] इति मीमांसकाः, तन्त्र युक्तम्, आनुपूर्व्या वर्णाव्यतिरेके व्यस्तानां वा समस्तानां वर्णानामर्थबोधाजनकत्वस्योक्तत्वात्, व्यतिरेके न साऽनित्या, स्वसिद्धान्तविरोधात्, वैदिकानुपूर्व्या नित्यत्वेनाभ्युपगमात् नापि 10 नित्या, स्फोटपक्षोदितनिखिलोषानुषङ्गात् । न वा वैदिकी वर्णानुपूर्वी नित्या, लौकिकतदानुपूर्व्यविशेषात् । न वा तदानुपूर्व्या वैलक्षण्यम्, अपौरुषेयत्वलक्षणवैलक्षण्यस्य प्रागेव निरस्तत्वात्, वैचित्र्यलक्षणवैलक्षण्यस्य चानित्यत्वेनाविरोधान्नित्यत्वाप्रसाधकत्वात्, लौकिकवाक्येष्वपि वैचित्र्यस्योपलब्धेश्च । नापि वर्णानां नित्यत्वाद् व्यापित्वाच्चानुपूर्वी सम्भवति, देशकालकृतक्रमानुपपत्तेः । न चाभिव्यक्त्यानुपूर्वी तेषां सम्भवति, अभिव्यक्तेः 15 पूर्वं निरस्तत्वात् । पूर्वपूर्व वर्ण ज्ञानजन्य संस्कार सहितस्तत्स्मृतिसहायो वाऽन्त्यो वर्ण पद मिति वैशेषिकाभ्युपगमोऽपि न युक्तः संस्कारस्मरणादेरनुपलभ्यमानस्य तत्सहकारित्वकल्पनायां प्रमाणाभावात् तदन्यथानुपपत्तेरप्यभावात् । आनुपूर्वीसम्भवेऽपि न परपक्षे अर्थप्रतिपत्तिहेतवो वर्णा भवितुमर्हन्ति, अर्थप्रतिपत्तिजनकस्वभावत्वे अजनकस्वभावत्वे वा नित्यं प्रतिपत्तेरप्रतिपत्तेर्वा प्रसङ्गात् । किन नित्यसम्बन्धवादिनां तदपेक्षया वर्णानां नार्थप्रत्यायक- 20 त्वं सम्भवति, नित्यस्यानुपकारकतयाऽपेक्षणीयत्वायोगात् । न वा शब्दार्थयोर्नित्यः सम्बन्धः प्रमाणसिद्धः, प्रत्यक्षेण तदननुभवात्, तदभावे च नानुमानेन तत्सिद्धिः, तस्य तत्पूर्वकत्वाभ्युपगमात् । ननु शब्दार्थयोर्यदि स्वाभाविकः सम्बन्धो न भवेत्तदा न भवेद्रवादिशब्दश्रवणेन ककुदादिमतोऽर्थस्य प्रतिपत्तिर्न चैवम्, तस्मादस्ति काचन शक्तिरर्थवाचिकेति चेन्न, अविज्ञातसम्बन्धस्यापि ततोऽर्थबोधप्रसङ्गात् । न च संकेताभिव्यक्तस्यैव स्वाभाविक सम्बन्धस्यार्थ- 25 प्रत्यायकत्वम्, सङ्केतादेवार्थप्रतिपत्त्या स्वाभाविक सम्बन्धकल्पनावैयर्थ्यप्रसङ्गात् । सङ्केताद्धि
१ वाच्यवाचकसामर्थ्यस्य श्रोत्रादीन्द्रियेऽसावारणरूपेणाप्रतिभासनात्, तत्सामर्थ्यस्यातीन्द्रियत्वात् । न ह्यतीन्द्रियं प्रतिपत्त्यङ्गम्, ज्ञापकस्य निश्वयावश्यकत्वात्, सन्निधिमात्रेण ज्ञापनेऽतिप्रसङ्गात् । न वाऽनुमानगम्यः, ज्ञानस्य वाऽर्थस्य वा शब्दस्य वा तल्लिकस्य तेन सम्बन्धासिद्धेः, न हि तत्तादात्म्यं तदुत्पत्तिर्वा लिङ्गस्य, तस्यानित्यत्वप्रसङ्गादिति बोध्यम् ॥
"Aho Shrutgyanam"