SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ एकविंशम् शब्देनानेनेत्थम्भूतमर्थ व्यवहारिणः प्रतिपादयन्तीत्यवगत्य व्यवहारकाले पुनस्तथाभूतशब्दश्रवणात्सङ्केतस्मरणे तत्सदृशं तं वाऽर्थं प्रतिपद्यन्ते, न पुनः स्वाभाविकं सम्बन्धमवगत्य पुनस्तत्स्मरणेऽर्थमवगच्छन्ति । न च स्वाभाविकसम्बन्धव्यतिरेकेण वाच्यवाचकयोः सङ्केतकर. णेऽनवस्थेति वाच्यम् , वृद्धव्यवहारात् प्रभूतशब्दानां वाच्यवाचकस्वरूपावधारणात्, प्रयो5 ज्यप्रयोजकयोव्युत्पन्नयोर्घटमानयेति शब्दप्रयोगतथानुष्ठाने पश्यन्नव्युत्पन्नसंकेतो बालोऽ. नेन घटशब्दात् घटार्थः प्रतिपन्नः, आनयशब्दाचानयनक्रिया, अन्यथाऽपरनिमित्ताभावेऽ. पीदृशानुष्ठानमेतद्वाक्य श्रवणानन्तरं कथं विदध्यादित्यव्युत्पन्नानां सङ्केतावधारणादिति कथ. मनवस्था भवेत् । न च प्रथमसंकेतविधायिनो विना स्वाभाविकसम्बन्धेन वाच्यवाच. कयोः कुतो वाच्यवाचकरूपावगतिरिति वाच्यम्, अनादित्वादस्य व्यवहारस्यापरा10 परसङ्केत विधायिपूर्वकत्वेन निर्दोषत्वात् । न च वाच्यवाचकसम्बन्धस्य पुरुषकृतत्वे शब्दवदर्थोऽपि वाचकः स्यादिति वाच्यम् , योग्यताऽनतिक्रमेण सङ्केतकरणात् । न च स्वाभाविकसम्बन्धव्यतिरेकेण प्रतिनियतयोग्यताया अप्यभाव इतिवाच्यम् , कृतकत्वेऽपि प्रतिनियतयोग्यतावतां भावानामुपलब्धेः, तथाहि यत्र लोहत्वं छेदिकाशक्तिस्तत्रैव क्रिय माणा दृष्टा न जलादो, यत्रैव तन्तुत्वमस्ति तत्रैव निष्पाद्यते पटोत्पादनशक्तिर्न तु वीरणादौ, 15 तत्र तन्तुत्वाभावात्, एवञ्च यद्यथोपलभ्यते तत्तथैवाभ्युपगन्तव्यम्, दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तेः, तेन यत्रैव वर्णत्वादिकं निमित्तं तत्रैव वाचिका शक्तिः सङ्केते. नोत्पाद्यते, यत्र तन्नियतं निमित्तं नास्ति न तत्र वाचिका शक्तिरिति न नित्यवाच्यवाचकसम्बन्धपरिकल्पनया प्रयोजनम् । एकान्तनित्यस्य तु ज्ञानजनकत्वे सर्वदा ज्ञानोत्पत्तिः, तदजनकस्वभावत्वे न कदाचिद्विज्ञानोत्पत्तिरिति प्रतिपादितम् । समयबलेन तु शब्दा20 दर्थप्रतिपत्तौ यथा सङ्केत विशिष्टसामग्रीतः कार्योत्पत्तौ न कश्चिद्दोषः । अत एवानुमानात् प्रमाणान्तरं शाब्दम् , अनुमानं हि पक्षधर्मत्वान्वयव्यतिरेकवल्लिङ्गबलादुदयमासादयति, शाब्दन्तु सङ्केत्तसव्यपेक्षशब्दोपलम्भात् प्रत्यक्षानुमानागोचरेऽर्थे प्रवर्त्तते, स्वसाध्याव्यभिचारित्वमप्यनुमानस्य त्रिरूपलिङ्गोद्भूतत्वेनैव निश्चीयते शाब्दस्य स्वाप्तोक्तत्वनिश्चये सति शब्दस्योत्तरकालमिति । किञ्च यत्र यत्रार्थे पुरुषेण प्रतिपादकतया शब्दः प्रयुज्यते तं तमर्थ 25 यथासंकेतं प्रतिपादयति, न त्वेवं धूमादिकं लिङ्गं पुरुषेच्छावशेन जलादिकं प्रतिपादयतीत्यनु मानाच्छन्दः प्रमाणान्तरं सिद्धः। कथं वर्णाः शब्दरूपतामुपयान्ति, उच्यते परिमितसंख्याकाः पुद्गलद्रव्योपादानापरित्यागेनैव परिणता अश्रावणस्वभावपरित्यागेन प्राप्तश्रावणस्वभावा वि. शिष्टानुक्रमयुक्ता वर्णाः वाचकत्वाच्छब्दरूपाः, अन्यथोक्तदोषानतिवृत्तिः स्यात् । ननु भवपक्षेऽपि क्रमस्य वर्णेभ्यो व्यतिरेके न वर्णविशेषणत्वमव्यतिरेके वर्णा एव केवलाः, ते च "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy