SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सोपानम् । नयसम्यक्त्वनिरूपणम् । व्यस्ताः समस्ता वा नार्थप्रतिपादका इति न शब्दः कश्चिदर्थप्रत्यायकः, असदेतत् , वर्णव्यतिरिक्ताव्यतिरिक्तस्य क्रमस्य प्रतिपत्तेः, तथाहि न वर्णेभ्योऽर्थान्तरमेव क्रमः, वर्णानुविद्धतया तस्य प्रतीतेः, नापि वर्णा एव क्रमः, तद्विशिष्टतया वर्णानां प्रतिपत्तेः, न च तद्विशेषणत्वेन प्रतीयमानस्य क्रमस्यापह्नवो युक्तः, वर्णेष्वपि तत्प्रसक्तेः, नेयं भ्रान्तिरूपा प्रतिपत्तिः, वर्णानां तद्विशिष्टतयाऽबाधिताध्यक्षगोचरत्वात् , अर्थप्रतिपत्तिकारणतोऽनुमितत्वाञ्च । न चाभावः 5 कस्यचिद्भावाध्यवसायितया विशेषणम् , नाप्यर्थप्रतिपत्तिहेतुः, न च क्रमोऽप्यहेतुः, तथा. स्मकवर्णेभ्योऽर्थप्रतीतेः, ततो भिन्नाभिन्नानुपूर्वी विशिष्टा वर्णा विशिष्टपरिणतिमन्तः शब्दः, स च पदवाक्यादिरूपतया व्यवस्थितः, तेन विशिष्टानुक्रमवन्ति तथाभूतपरिणतिमापन्नानि पदान्येव वाक्यमभ्युपगन्तव्यम् , तद्व्यतिरिक्तस्य तस्य पदवदनुपपद्यमानत्वात् । ननु कथं शब्दो वस्त्वन्तरत्वात् पुरुषादेवस्तुनो धर्मो येनासौ तस्य व्यञ्जनपर्यायो भवेत् , न, नामन• 10 याभिप्रायात् , नामनामवतोरभेदात् , पुरुषशब्द एव पुरुषार्थस्य व्यञ्जनपर्यायः, यद्वा पुरुष इति शब्दो वाचको यस्यार्थगततद्वाच्यधर्मस्यासौ पुरुषशब्दः, स चाभिधेयपरिणामो व्यअनपर्यायः कथं नार्थधर्मः, स च व्यञ्जनपर्यायः पुरुषोत्पत्तेरारभ्य आ पुरुषविनाशाद्भवतीति जन्मादिमरणपर्यन्त उक्तः, तस्य तु बालादयः पर्याययोगा बहुविकल्पाः, तस्य पुरुषाभिधेयपरिणामवतो बालकुमारादयस्तत्रोपलभ्यमाना अर्थपर्याया भवंत्यनन्तरूपाः, एवञ्च 15 पुरुषो व्यञ्जनपर्यायेणैकः बालादिभिस्त्वर्थपर्यायैरनेक इति सिद्धम् ॥ ३२ ॥ इत्थमेव सर्व वस्त्वेकमने वा सर्वस्य तथैवोपलम्भादन्यथाऽभ्युपगमे एकान्तरूपमपि तन्न भवेदित्याह अस्थि त्ति णिव्यियप्पं पुरिसं जो भणइ पुरिसकालम्मि । सो बालाइवियप्पं न लहइ तुल्लं व पावेजा ॥ ३३ ॥ अस्तीति निर्विकल्प पुरुषं यो भणति पुरुषकाले । स बालादिविकल्प न लभते तुल्य वा प्राप्नुयात् ।। छाया ।। अस्तीति, योऽस्तीत्येवं निर्गताखिलभेदं एकरूपं पुरुषद्रव्यं पुरुषोत्पत्तिक्षण एव ब्रवीति बालादिभेदरूपतया नासौ स्वयमेव व्यवस्थितिं प्राप्नुयात् , नापि तद्रूपतयाऽपरमसौ पश्येत् , एवश्वाभेदरूपमेव तत्पुरुषवस्तु प्रसज्यते तुल्यं वा प्राप्नुयात् , तदप्यभेदरूपं बालादि- 25 तुल्यतामेव अभावरूपतया प्राप्नुयात् . भेदाप्रतीतो हि अभेदोऽपि न प्रतीयत एवेति अभावरूपतैवेति भावः ॥ ३३ ॥ इदमेवोपसंहरति-- 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy