SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ एकविंशम् वंजणपज्जायस्स उ पुरिसो पुरिसोत्ति णिच्चमवियप्पो। बालाइवियप्पं पुण पासइ से अत्थपज्जाओ ॥ ३४ ॥ ध्यानपर्यायस्य तु पुरुषः पुरुष इति नित्यमविकल्पः । बालादियिकल्पं पुनः पश्यति तस्यार्थपर्यायः ॥ छाया ।। 5 व्यञ्जनेति, व्यञ्जनं शब्दः, अर्थव्यञ्जकत्वात् , तस्य पर्यायः आजन्मनो मरणान्तं यावदभिन्नस्वरूपपुरुषद्रव्यप्रतिपादकत्वं, तद्वशेन तत्प्रतिपाद्य वस्तुस्वरूपं वोपचारात्, तस्य मतेन तु एतद् द्वितयमपि पुरुषः पुरुष इत्यभेदरूपतया न भिद्यते, अत एतन्मतेन पुरुषवस्तु सदाऽविकल्पकम् , भेदं न प्रतिपद्यत इति भावः । बालादिभेदं तु तस्यैव पुरुषस्यार्थपर्यायः ऋजुसूत्रादिः पश्यति । अत्रापि विषयिणा विषयः ऋजुसूत्राद्यर्थनय विषयः अभिन्ने पुरुषरूपे 10 भेदस्वरूपो निर्दिष्टः, उपचारात्, एवञ्चाभिन्नं पुरुषवस्तु भेदं प्रतिपद्यत इति यावत् । शब्दपर्यायेणाविकल्पः पुरुषो बालादिना त्वर्थपर्यायेन सविकल्पः सिद्ध इति गाथातात्पर्यार्थः ॥३४॥ एवं निर्विकल्पसविकल्पस्वरूपे पुरुषवस्तुनि तद्विपर्ययेण तद्वस्तु प्रतिपादयन् वस्तुस्वरूपानवबोधं स्वात्मनिप्रकाशयतीत्याह सवियप्पणिवियप्पं इय पुरिसं जो भणेज्ज अवियप्पं । सवियप्पमेव वा णिच्छएण ण स निच्छिओ समए ॥ ३५ ॥ सविकल्पनिर्विकल्पमिति पुरुष यो भण्यादविकल्पम् । सविकल्पमेव वा निश्चयेन न स निश्चितः समये ॥ छाया ॥ सविकल्पेति, स्यात्कारपदलाञ्छितं सविकल्पं निर्विकल्पं पुरुषद्रव्यं यः प्रतिपादको निश्चयेन-अवधारणेन अविकल्पमेव सविकल्पमेव वा ब्रूयात् स यथावस्थितवस्तुप्रतिपादने 20 प्रस्तुतेऽन्यथाभूतं वस्तु प्रतिपादयन् समये न परमार्थेन वस्तुसत्वस्य परिच्छेत्तेति निश्चितः। प्रमाणपरिच्छिन्नं हि तथैवाविसंवादिवस्तु प्रतिपादयन् वस्तुतः प्रतिपादक उच्यते । न चैकाताविकल्पादिरूपं वस्तु केनचित् प्रतिपन्नं प्राप्यते वा येन तथाभूतं वचस्तत्र प्रमाणं भवेत् , तथाभूतवचनाभिधाता वा तज्ज्ञानं वा प्रमाणतया लोके व्यपदेशमासादयेदिति ॥ ३५ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पदृघरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य नयसम्य कत्वनिरूपणं नाम एकविंशतितमं सोपानम् ॥ 15 25 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy