SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 10 सोपानम् ] सप्तभनिरूपणम् । अथ सप्तभङ्गनिरूपणम् । तदेवं परस्परसापेक्षभेदाभेदात्मनो वस्तुनः कथञ्चित् सदसत्वमुक्त्वा तदभिधायकस्य वचसः पुरुषस्यापि तदभिधानद्वारेण सम्यमिथ्यात्वमभिधाय सम्प्रति भावाभावविषयं तत्रैवैकान्तानेकान्तात्मकमंशं प्रतिपादयतो विवक्षया सुनयदुर्नयप्रमाणरूपतां तत्प्रति. पादकं वचो यथाऽनुभवति तथा प्रपञ्चतः प्रतिपादयितुम् , यद्वा यथैव यद्वस्तु व्यवस्थितं 5 तथैव तस्य प्रतिपादयतो वक्तुनिपुणत्वं भवति, अन्यथा सांख्यबौद्धकणादानामिवाभिन्नभिन्नपरस्परनिरपेक्षोभयवस्तुस्वरूपाभिधायिनां अर्हन्मतानुसारिणामपि स्यादस्तीत्यादि सविक. ल्परूपतामनापन्नवचनं वक्तयां स्यात्कारपदालाञ्छितवस्तुधर्म प्रतिपादयतामनिपुणता भवे. दिति प्रपञ्चतः सप्तविकल्पोत्थाननिमित्तमुपदर्शयितुमाह अत्यंतरभूएहि य णियएहि य दोहि समयमाईहिं। वयणविसेसाईयं दव्वमवत्तव्वयं पडइ ॥३६ ।। अर्थान्तरभूतेश्च निजकैश्च द्वाभ्यां समयादिभ्याम् । वचनविशेषातीतं द्रव्यमवक्तव्यकं पतति ॥ छाया ॥ अर्थान्तरेति । अर्थान्तरभूतः पटादिः, निजो घटादिः, ताभ्यां निजार्थान्तरभूताभ्यां घटवस्तुनः सदसत्त्वं प्रथम द्वितीयभङ्गनिमित्तं प्रधानगुणभावेन भवतीति प्रथम द्वितीयौ 15 भनौ । यदा तु द्वाभ्यामपि युगपत्तद्वस्तु अभिधित्सितं भवति तदाऽवक्तव्यभङ्गनिमित्तं तथाभूतस्य वस्तुनोऽभावात् प्रतिपादकवचनातीतत्वात् तृतीयभङ्गसद्भावः, वचनस्य वा तथाभूतस्याभावात् अवक्तव्यं वस्तु । तत्रासत्त्वमुपसर्जनीकृत्य सत्त्वस्य प्रतिपादने प्रथमो भङ्गः सत्त्वमुपसर्जनी कृत्यासत्वस्य प्रतिपादने च द्वितीयो भङ्गः । द्वयोधर्मयोश्च मुख्यतो गौणतो वा प्रतिपादने न किञ्चिद्वचनं समर्थम् , समस्तवचनेन वाक्येन वा तत्प्रतिपाद- 20 नासम्भवात् । अन्यपदार्थप्रधानत्वात् बहुव्रीहिरत्र न समर्थः, उभयप्राधान्यस्यात्रापेक्ष. णात्, अत्रार्थेऽव्ययीभावोऽपि न प्रवर्ततेऽसम्भवात् । उभयपदप्रधानो द्वंद्वसमासो द्रव्यवृत्तिर्न प्रकृतार्थप्रतिपादकः, एकत्र धर्मद्वयस्य मुख्यतया तेनाप्रतिपादनात् । गुणवृत्तिरपि द्रव्याश्रितगुणप्रतिपादकः, द्रव्यमन्तरेण गुणानां तिष्ठतीत्यादिक्रियान्वयित्वासम्भवात् , तस्या द्रव्याश्रितत्वादतो न प्रधानभूतयोर्गुणयोः प्रतिपाद्यत्वम् । उत्तरपदार्थप्रधानत्वात्तत्पु. 25 रुषोऽप्यत्र न प्रवर्तते, संख्यावाचिपूर्वपदत्वाद् द्विगुरप्यशक्त एव, कर्मधारयोऽपि न, गुणाधारव्यविषयत्वात् । न चान्यत् समासान्तरमस्ति येनैकया मुख्यतया गुणद्वयं वाच्यं भवेत् , अत एव न वाक्यमपि ताहगर्थप्रतिपादकमस्ति, तस्य समासाभिन्नार्थ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy