SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ द्वाविंशम् बोधकत्वात् , न च केवलं पदं वाक्यं वा लोकप्रसिद्धम , तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् । शतृशानचोः ‘तौ सदि' ति [पा० ३-२-१२७] सङ्केतितसच्छन्दवन्न तयोः केनचित्सङ्केतितैकशब्देन वाच्यत्वम् , विकल्पप्रभवशब्दवाच्यत्व. प्रसक्तेः, विकल्पानाञ्च युगपदप्रवृत्त्या नैकदा तयोस्तद्वाच्यतासम्भव इत्यवाच्यत्वं तृतीयो 5 भङ्ग इति प्रथमोऽपेक्षाभेदः । यद्वा नामस्थापनाद्रव्यभावभिन्नेषु वस्तुषु विधिसिताविधित्सितरूपेण प्रथम द्वितीयौ भनौ, तत्प्रकाराभ्यां युगपदवाच्यम् , तथाभिधेयपरिणामरहितस्वात् , यदि ह्यविधित्सितरूपेणापि घटः स्यात् तर्हि प्रतिनियतनामादिभेदव्यवहाराभावप्र. सक्तिः, तथा च विधित्सितस्यापि नात्मलाभ इति सर्वाभाव एव भवेत् , यदि विधिस्सितप्रकारेणाप्यघटः स्यात्सदा तन्निबन्धनव्यवहारोच्छेदः स्यात्, एकपक्षाभ्युपगमेऽपि तदित10 राभावे तस्याप्यभाव इत्यवाच्य इति द्वितीयो भेदः । अथवा स्वीकृतप्रतिनियतप्रकारे नामा दिके तटवस्तुनि यः संस्थानादिस्तत्स्वरूपेण घटः, इतरेण चाघट इति प्रथम द्वितीयौ, ताभ्यां युगपदभिधातुम शक्तरवाच्यः, अपरसंस्थानादिनापि यदि घटस्तदैकस्य सर्वघटात्मकता स्यात्, विवक्षितसंस्थानेनाप्यघटो यदि तर्हि पटादाविव घटार्थिनस्तत्राप्रवृत्तिर्भवेत् , एकान्ताभ्युपगमेऽपि तथाभूतस्य प्रमाणाविषयत्वेनासत्त्वादवाच्य इति तृतीयः प्रकारः । 15 यद्वा स्वीकृतप्रतिनियतसंस्थानादौ मध्यमावस्था निज रूपम्, कुशूलकपालादिलक्षणे पूर्वोत्त रावस्थे अर्थान्तररूपम् , ताभ्यां सदसत्त्वं प्रथमद्वितीयौ भङ्गो, युगपत्ताभ्यामभिधातुमसामात् अवाच्यत्वं तृतीयो भङ्गः। यदि घट इतरावस्थाभ्यामपि भवेत् तदानाद्यनन्तत्वप्रसङ्गः । मध्यमावस्थयाप्यघटो यदि स्यात् सर्वदा घटाभावप्रसक्तिः, एकान्तरूपतायाम. प्ययमेव प्रसङ्ग इत्यसत्वादेवावाच्य इति चतुर्थों भेदः । अथवा तस्मिन्नेव मध्यमावस्थारूपे 20 वर्तमानावर्तमानक्षणाभ्यां सदसत्त्वं प्रथमद्वितीयौ, ताभ्यां युगपदभिधातुमशक्तेरवाच्यत्वं तृतीयः, पूर्वोत्तरक्षणयोरपि घटस्य सत्त्वे वर्तमानक्षणमेवासौ जातः पूर्वोत्तरयोर्वर्तमानताप्राप्तेः वर्तमानक्षणमात्रमपि न स्यात्, पूर्वोत्तरक्षणयोरभावे तदपेक्षस्य तस्याप्यभावात् । वर्तमानक्षणेनाप्यघटरूपतायां सर्वदा तस्याभावप्रसक्तिः, एकान्तपक्षेऽप्ययमेव दोष इत्यभा. वादेवावाच्य इति पञ्चमः । यद्वा क्षणपरिणतिरूपे घटे लोचनेतरेन्द्रियजप्रतिपत्तिविषय25 त्वाभ्यां सदसत्त्वं प्रथमद्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यः, इन्द्रियान्तरजप्रत्तिविषयत. यापि घटो यदि स्यादिन्द्रियान्तरकल्पनावैयर्यप्रसङ्गः, इन्द्रियसङ्करप्रसक्तिश्च लोचनजप्रतिपत्तिविषयत्वेनापि न घटस्तर्हि तस्यारूपत्वप्रसक्तिः एकान्तवादेऽपि तदितराभावे तस्याप्यभावादवाच्य एवेति षष्ठो भेदः । अथवा लोचनप्रतिपत्तिविषये तत्रैव घटे घटशब्दवाच्यता निजं रूपं कुटशब्दवाच्यता पररूपं, ताभ्यां सदसत्त्वात् प्रथम द्वितीयौ भङ्गो, योगपद्यनाभि "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy