________________
सोपानम् ।
सप्तमननिरूपणम् । दानापेक्षया त्ववाच्यता, घटो यदि कुटशब्दवाच्यतयापि भवेत्तदा त्रिजगत एकशब्दवाच्यता स्यात् , घटस्य वाऽशेषपटादिशब्दवाच्यताप्रसङ्ग इति घटशब्दवाच्यत्वप्रतिपत्तौ निखिलतद्वाचकशब्दप्रतिपत्तिप्रसङ्गश्च, घटशब्देनाप्यवाच्यश्चेद्धटशब्दोचारणवैयर्यप्रसङ्गः, एकान्ताभ्युपगमे तु तथाविधवस्त्वभावात् सङ्केतद्वारेणापि न तद्वाचकः कश्चित् शब्द इत्यवाच्य एवेति सप्तमः प्रकारः । एवं घटशब्दाभिधेये तत्रैव घटे हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगादितया 5 सदसत्त्वात्प्रथमद्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यः, हेयबहिरङ्गानर्थक्रियाकार्यसन्निहितरूपेणापि यदि घटो भवेत् पटादीनामपि घटत्वप्रसक्तिः, यधुपादेयसन्निहितादिरूपेणाप्यघटः स्यात्तदाऽन्तरङ्गस्य वक्तृश्रोतृगतहेतुफलभूतघटाकारावबोधकविकल्पोपयोगस्याप्यभावे घटस्याप्यभावप्रसङ्ग इत्यवाच्यः, एकान्ताभ्युपगमेऽप्यमेव प्रसङ्ग इत्यवाच्य इत्यष्टमो भेदः । अथवा तत्रैवोपयोगेऽभिमतार्थावबोधकत्वानभिमतार्थावबोधकत्वाभ्यां सदसत्त्वात् प्रथमद्वितीयौ, 10 ताभ्यां युगपदादिष्टोऽवाच्यः, इतरप्रकारेणापि यदि घटः स्यात् प्रतिनियतोपयोगाभावः, तथा भ्युपगमे विविक्तरूपोपयोगप्रतिपत्तिर्न भवेत् , स्वरूपेणापि यद्यघटो भवेत्तदा सर्वाभावः, अवि. शेषप्रसङ्गोवा, न चैवम् , तथाऽप्रतीतेः, एकान्तपक्षेऽप्ययमेव प्रसङ्ग इत्यवाच्य इति नवमः । अथवा सत्त्वमसत्त्वं वा पररूपं घटत्वश्च निजं रूपं ताभ्यां प्रथमद्वितीयौ भङ्गो, अभेदेन ताभ्यां निर्दिष्टो घटोऽवक्तव्यो भवति, यदि हि सत्त्वमनूद्य घटत्वं विधीयते तदा सत्त्वस्य घटत्वेन 15 व्याप्तेर्घटस्य सर्वगतत्वप्रसङ्गः, तथाभ्युपगमे प्रतिभासबाधा व्यवहारविलोपश्च, तथा यद्यसत्त्वमनूद्य घटत्वं विधीयते तर्हि प्रागभावादेश्चतुर्विधस्याप्यसत्त्वस्य घटत्वेन व्याप्तेर्घटत्वप्रसङ्गः, यदि च घटत्वमनूद्य सदसत्त्वे विधीयेते तदा घटत्वं यत्तदेव सदसत्त्वे इति घट. मात्रं सदसत्त्वे प्रसज्येते तथा च पटादीनां प्रागभावादीनाश्चाभावप्रसक्तिरिति प्राक्तनन्यायेन विशेषणविशेष्यलोपात् सन् घट इत्येवमवक्तव्यः, असन् घट इत्येवमप्यवक्तव्यः, न चैकान्त- 20 तोऽवाच्यः, अनेकान्तपक्षे तु कथश्चिदवाच्य इति न कश्चिद्दोष इति दशमः प्रकार इति दिक ॥ भङ्गा एते त्रयो गुणप्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः स्वयं तथाभूताः सन्तो निरवयवप्रतिपत्तिद्वारेण सकलादेशाः, वक्ष्यमाणाश्चत्वारस्तु सावयवप्रतिपत्तिद्वारेणाशेषधर्माकान्तं वस्तु प्रतिपादयन्तोऽपि विकलादेशा इति केचित् प्रतिपन्नाः । वाक्यच सर्वमेकानेकात्मकं सत् स्वाभिधेयमपि तथाभूतमवबोधयति, न हि तावनिरवयवेन 25 वस्तुस्वरूपाभिधानं सम्भवति, अनन्तधर्माकान्तकात्मकत्वाद्वस्तुनः, निरवयववाक्यस्य तु एकस्वभाववस्तुविषयत्वात् तथाभूतस्य च वस्तुनोऽसम्भद्वात् न निरवयवस्य तस्य
२२
"Aho Shrutgyanam"