________________
सम्मतितस्वसोपामे
[द्वाविंशम् वाक्यमभिधायकम् । नापि सावयवं वाक्यं वस्त्वभिधायकं सम्भवति, वस्तुन एकात्मकत्वात्, न च वस्तुनस्तदंशा व्यतिरिक्ताः, तद्व्यतिरेकेण तेषामप्रतीतेः, एकस्वरूपव्याप्तानेकांशप्रतिभासात् , न च तदेकात्मकमेव, अनेकांशानुरक्तस्यैवैकात्मनः प्रतिभासात्,
अतो वस्तुन एकानेकस्वभावत्वात् तथाभूतवस्त्वभिधायकाः शब्दा अपि तथाभूता 5 एव, नैकान्ततः सावयवा उभयैकान्तरूपा वा । तत्र विवक्षाकृतप्रधानभावसदायेकधर्मात्मकस्यापेक्षितापराशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य स्यात्कारपदलाञ्छितवाक्यात् प्रतीतेः स्याएस्ति घटः, स्यान्नास्ति घटः, स्यादवक्तव्यो घट इत्येते त्रयो भङ्गा सकलादेशाः । विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थरूपस्य
प्रतिपत्तेश्चत्वारो वक्ष्यमाणा विकलादेशाः स्यादस्ति च नास्ति घट इति प्रथमो विकलादेशः, 10 स्यादस्ति चावक्तव्यश्च घट इति द्वितीयः, स्यान्नास्ति चावक्तव्यश्च घट इति तृतीयः, स्यादस्ति
च नास्ति चावक्तव्यश्च घट इति चतुर्थः, एत एव सप्तभङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधारजैकस्वभावा विषयाभावाहुर्नया भवन्ति, धर्मान्तरोपादानप्रतिषेधाकरणात् स्वार्थमात्रप्रतिपादनप्रवणा एते एव सुनयरूपतामासादयन्ति, स्यात्पदलाञ्छन विवक्षितकधर्मावधारणवशाद्वा
सुनयाः, सयादेरेकदेशस्य व्यवहारनिबन्धनत्वेन विवक्षितत्वात् , धर्मान्तरस्य चानिषि15 द्धत्वात् । अतः स्यादस्ति इत्यादि प्रमाणम् , अस्त्येवेत्यादि दुर्नयः, अस्ति इत्यादि सुनयः,
न तु संव्यवहाराङ्गम् , स्यादस्त्येव इत्यादिकस्तु नय एव व्यवहारकारणम् , स्वपराव्यावृत्तव. स्तुविषयप्रवर्तकवाक्यस्य व्यवहारकारणत्वात् , अन्यथा सदयोगादिति ॥ ३६॥ अथ सावयववाक्यरूपं चतुर्थभङ्गमाह
अह देसो सम्भावे देसोऽसम्भावपज्जवे णियओ। 20
तं दवियमस्थि णस्थि य आएसविसेसियं जम्हा ॥ ३७ ॥
अथ देशः सद्भाचे देशोऽसद्भावपर्यवे नियतः ।
तद्रव्यमस्ति नास्ति च आदेशविशेषितं यस्मात् ॥ छाया ॥ अथेति. यदा वस्तुनोऽवयवलक्षणो देशोऽस्तित्वे नियतः, सन्नेवायमित्येवं निश्चितः, अपरश्च देशो नास्तित्वे नियतः, असनेवायमित्यवगतः, कथश्चिदवयवेभ्योऽवयविनोऽ. 25 भेदादवयवधमैः सोऽपि तथा व्यपदिश्यते यथा कुण्ठो देवदत्त इति, एवञ्चावयवसत्त्वासस्था
भ्यामवयत्र्यपि सदसन् भवति, तस्मात्तद्रव्यमस्ति च नास्ति च भवति, उभयप्रधानावयव
१ येन वाक्यमपि निरवयवं भवेदिति भावः। अत्र वाक्ये सावयवत्वं निरक्यत्वञ्चानेकात्मकत्वमेकात्मकत्वं बोध्यम् ॥
"Aho Shrutgyanam"